________________
त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् [पृ०२५६] सच्चरणाणुट्ठाणं, विहिपडिसेहाणुगं तत्थ । गाथार्द्धम् ।
व्या० सच्चारित्रमनुष्ठानं वर्तते, कीदृशम्? विधिप्रतिषेधानुगम, विधिश्च प्रतिषेधश्च विधिप्रतिषेधौ, तावनुगच्छतीति विधिप्रतिषेधानुगं किञ्चिद्विध्यनुगं किञ्चिन्निषेधानुगम्, तत्र कथं व्यवसायः? तत्रोत्तरम्-तद् बाह्यचारित्रापेक्षमवगन्तव्यमिति ॥ [पृ०२५८] वत्थू वसइ सहावे, सत्ताओ चेअण व्व जीवम्मि ।
न विलक्खणत्तणाओ, भिन्ने अन्यत्र छायातवे चेव ॥५३॥ [विशेषाव० २०४२] व्या० सर्वमेव वस्तु आत्मस्वभावे वसति, सत्त्वात् जीवे चेतनावत्, भिन्ने त्वात्मविलक्षणस्वरूपे वस्तुनि न वसति, यथा छायाऽऽतपे । यच्च सत् तत् स्वभावे वसति, जीवे चेतनावत् । भिन्ने अन्यत्र विलक्षणत्वाच्चेतना न वसति । किंवत् ? छायाऽऽतपाविव, यथा- छाया यदा भवति तदा आतपो न भवति यदाऽऽतपो भवति तदा छाया न भवति, 10 तत्र हेतुः स्वभाव एव ॥५३।।
पृ०२६०] अथ यथा मति-श्रुतयोः कार्यकारणभावाद्भेदस्तथा तयोः प्रत्येकं स्वस्थानेऽपि सम्यक्त्व-मिथ्यात्वपरिग्रहाद्भेद एवेत्यनुषङ्गतो दर्शयितुं नन्द्यध्ययनागमे मतिश्रुतयो: कार्यकारणभावेन भेदप्रतिपादनानन्तरमिदं सूत्रमस्ति, तद्यथा
अविसेसिआ मई मइनाणं च मइअन्नाणं च, विसेसिआ मई सम्मदिट्ठिस्स मई मइनाणं, 15 मिच्छादिहिस्स मईअन्नाणं । एवं अविसेसिअं सुअं सुअनाणं च सुअअन्नाणं च, सम्मदिहिस्स सुअं सुअनाणं मिच्छादिट्ठिस्स सुअं सुअअन्नाणं । [सू. ४६]
सम्यग्दृष्टि-मिथ्यादृष्टिसम्बन्धतोऽविशेषितेन मतिशब्देन मतिज्ञानं मत्यज्ञानं च द्वे अपि प्रतिपाद्येते, सम्यग्दृष्टित्वविशेषितेन तु मतिध्वनिना मतिज्ञानमेवोच्यते, मिथ्यादृष्टित्वविशेषितेन तु तेनैव मत्यज्ञानमेवाभिधीयते, एवं श्रुतेऽपि वाच्यमिति सूत्रभावार्थः । तदेतदानुषङ्गिकं 20 सूत्रोक्तमनुवर्त्तमानो भाष्यकारोऽप्याह
अविसेसिआ मइ च्चिअ, सम्मद्दिट्ठिस्स सा मइन्नाणं । मइअन्नाणं मिच्छादिट्ठिस्स सुअं पि एमेव ॥५४॥ [विशेषाव० ११४]
व्या० सम्यग्दृष्टि-मिथ्यादृष्टिभावेनाविशेषिता मतिः मतिरेवोच्यते, न तु मतिज्ञानं मत्यज्ञानं चेति निर्धार्य व्यपदिश्यते, सामान्यरूपायां तस्यां ज्ञाना-ऽज्ञानविशेषयोर्द्वयोरप्यन्तर्भावात् । यदा 25 तु सम्यग्दृष्टेरेव सम्बन्धिनी सा मतिर्विवक्ष्यते तदा मतिज्ञानमिति निर्दिश्यते यदा तु मिथ्यादृष्टिसम्बन्धिनी तदा मत्यज्ञानम् । एवं श्रुतमप्यविशेषितं श्रुतमेव, विशेषितं तु सम्यग्दृष्टे: श्रुतज्ञानं मिथ्यादृष्टेस्तु श्रुताज्ञानम्, सम्यग्दृष्टिसम्बन्धिनो बोधस्य सर्वस्यापि ज्ञानत्वात् मिथ्यादृष्टिसत्कस्य त्वज्ञानत्वादिति गाथार्थः ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org