________________
१३८ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे विधीयते तद्वीरासनम् । अहवा वि त्ति अथवेति प्रकारान्तरद्योतनार्थः, अपि: समुच्चये, अवतिष्ठेदाम्रकुब्जो वा आम्रफलवद्वक्राकारेणावस्थितः । एवमेतास्तिस्रोऽपि प्रथमसप्तरात्रिन्दिवाद्याः प्रतिमा एकविंशत्या दिवसैर्यान्तीति ॥४९।।
एकादशीमाह5 एमेव अहोराई, छठे भत्तं अपाणगं नवरं ।
गामनगराण बहिआ, वग्धारिअपाणिए ठाणं ॥५०॥ [पञ्चा० १८।१८, प्रव० ५८६]
व्या० एवमेव अनन्तरोक्तनीत्या अहोरात्रिकी प्रतिमा भवति । नवरं केवलं षष्ठं भक्तं भोजनं वर्जनीयतया यत्र तत् षष्ठभक्तमुपवासद्वयरूपं तपः, तत्र ह्युपवासद्वये चत्वारि भक्तानि छिद्यन्ते, एकाशनेन तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति, षष्ठम् इत्यत्र 10 चानुस्वारोऽनागमिकः । अपानकं पानकाहाररहितं तस्यां विधेयमिति शेषः । तथा ग्रामनगरेभ्यो
बहिस्ताद् व्याघारितपाणिके प्रलम्बभुजस्य स्थानम् अवस्थानं भवति प्रतिमाप्रतिपन्नस्येति, इयं चाहोरात्रिकी प्रतिमा दिनत्रयेण याति, अहोरात्रस्यान्ते षष्ठभक्तकरणात् ॥५०॥ द्वादशीमाह[पृ०२५४] एमेव एगराई, अट्ठमभत्तेण ठाण बाहिरओ ।
ईसिंपन्भारगए, अणिमिसनयणेगदिट्ठीए ॥५१॥ साहह दोवि पाए, वग्घारिअपाणि ठायइ ठाणं । वग्घारिलंबिअभुओ, सेस दसासु जहा भणियं ॥५२॥
(प्रवचनसारो० ५८७-५८८, पञ्चाशक० १८।१९-२०] व्या० एवमेव अहोरात्रिकीवदेव एकरात्रिकी प्रतिमा भवति, विशेषमाह-अष्टमभक्तेन उपवासत्रयेण पानकाहाररहितेन स्थानम् अवस्थानं कर्तुः बहिस्ताद् ग्रामादेः, तथाहि-ईषत्प्राग्भारगत 20 ईषत्कुब्जो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्तथाऽनिमिषनयनो निर्निमेषनेत्रस्तथा एकदृष्टिः
एकपुद्गलगतदृष्टिर्यथास्थितगात्रो गुप्तसर्वेन्द्रिय इति । साह त्ति संहृत्य द्वावपि पादौ क्रमौ जिनमुद्रया व्यवस्थाप्येत्यर्थः, व्याघारितपाणिर्वक्ष्यमाणोऽर्थः ठायति त्ति तिष्ठति करोति स्थानं कायावस्थानविशेषम्, अथवा व्याघारितपाणि त्ति पदं सूत्रकृदेव व्याख्याति-व्याघारितपाणि
लम्बितभुजोऽवलम्बितबाहुरुच्यते, सम्यक्पालने चास्या यत् स्यात्तदाह- अन्ते च सम्यक्पर्यन्तं 25 नयने पुनरस्या एकरात्रिकीप्रतिमाया लब्धिाभविशेष: स्यात् ।।५१-५२।।
चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात्, यच्चोच्यते१. सेस दसासु जहा भणिअं-इति पाठस्य स्थाने 'अंते अ इमीइ लद्धित्ति' इति पञ्चाशकादौ पाठः ॥ २. ठायए-प्रवचनसारोद्धारवृत्तौ ।।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org