________________
त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम्
१३७ व्या० ततश्च सप्तम्यनन्तरम् अष्टमी प्रथमसप्तरात्रिन्दिवा प्रतिमा भवति, इह प्रक्रमे, तस्यां प्रथमसप्तरात्रिन्दिवायां चतुर्थचतुर्थेन एकान्तरोपवासेन आसितव्यमिति शेषः । अपानकेन पानकाहाररहितेन, चतुर्विधाहाररहितेनेत्यर्थः । इह च पारणके आचाम्लं कर्त्तव्यम्, दत्तिनियमस्तु नास्तीति । तथा उत्तानक ऊर्ध्वमुखशयितः पासल्लीति पार्श्वशयितः नेसजीति निषद्यावान्, समपुततयोपविष्टः वा वीति विकल्पार्थः, स्थानम् उक्तमेव कायचेष्टाविशेषरूपं स्थित्वा कृत्वा, 5 ग्रामादिभ्यो बहिरिति शेषः । सहते क्षमते उपसर्गान् उपद्रवान् घोरान् रौद्रान् दिव्यादीन् देवकृतादीन्, आदिशब्दान्मानुष-तैरश्चादिग्रहः । तत्र तस्यां प्रतिमायाम् अविकम्पो मनःशरीराभ्यामचल इति ॥४६-४७।। नवमीमाह
दोच्चा वि एरिसि च्चिअ, बहिआ गामाईआण नवरं तु । उक्कुडुलगंडसाई, डंडायइउ व्व ठाइत्ता ॥४८॥ [पञ्चा० १८।१६, प्रव० ५८४] 10
व्या० द्वितीया सप्तरात्रिन्दिवा प्रतिमाऽपि ईदृश्येव प्रथमसप्तरात्रिन्दिवप्रतिमासदृश्येव, तपः-पारणसाधाद् ग्रामादिबहिर्वत्तिसाधर्म्याच्च । अत एवाह- बहिस्तादेव बहिरेव ग्रामादीनां सन्निवेशविशेषाणाम् । नवरं केवलमयं विशेषः, तुशब्दोऽवधारणे स च योजित एव । उत्कुटुको भूमावन्यस्तपुततयोपविष्टः । तथा लगण्डं दुस्संस्थितं काष्ठम्, तद्वच्छेते य एवंशीलोऽसौ लगण्डशायी मस्तक-पार्णिकाभिरेव पृष्ठप्रदेशेनैव वा स्पृष्टभूभागः, तथा दण्डवद् यष्टिवदायतो 15 दी? दण्डायत:, पादप्रसारणेन भूमिन्यस्तायतशरीरः, स एव दण्डायतकः । वाशब्दो विकल्पार्थः। स्थित्वा अवस्थाय दिव्याधुपसर्गान् सहत इति प्रक्रमात् ॥४८॥
दशमीमाहतच्चाए वी एवं, नवरं ठाणं तु तस्स गोदोही । वीरासणमहवा वी, ठाएज व अंबखुजो उ ॥४९॥ [पञ्चा० १८।१७, प्रव० ५८५] 20
व्या० तृतीयाऽपि सप्तरात्रिन्दिवा प्रतिमाऽपि ईदृश्येव उक्तस्वरूपैव, तपः-पारणकग्रामादिबहिर्वृत्तिसाधर्म्यात् प्रथमसप्तरात्रिन्दिवप्रतिमातुल्यैवेत्यर्थः । नवरं केवलं स्थानं शरीरावस्थानं तस्य प्रतिमाप्रतिपत्तुर्गोदोहीति गोदोहकसमाकारत्वाद् गोदोहिका, गोदोहनप्रवृत्तस्येव पुतयोः पाणिभ्यां संयोगे अग्रपादतलाभ्यामवस्थानक्रिया, सा विधेयेति शेषः। वीराणां दृढसंहनानाम् आसनं वीरासनम्, सिंहासनाद्यधिरूढस्य भूमिन्यस्तपादस्य सिंहासनाद्यपनयने सत्यचलितस्य 25 तथैवावस्थानरूपम्, तदपि स्थानं तस्येति प्रक्रमः । यद्वा वामपादो दक्षिणस्योरोरुपरि दक्षिणश्च वामस्योरोरुपरि यत्र क्रियते, वामकरतलस्य चोपरि दक्षिणकरतलमुत्तानं नाभिलग्नं च यत्र १. द्वितीयसप्त० - पञ्चाशक-प्रवचनसारोद्धारवृत्त्योः ।। २. उक्कुटुओ-पञ्चाशकवृत्तौ । उत्कटुको-प्रवचनसारोद्धारवृत्तौ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org