________________
१३६ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे भक्तं चान्नं पुनरलेपकृतम् अलेपकारकं वल्ल-चनकादि तस्य प्रतिमाप्रतिपत्तुकामस्य परिकर्म कुर्वतः, चशब्दादुपधिश्च अस्य स्वकीयैषणाद्वयलब्ध एव, तदभावे यथाकृतोऽप्युचितप्राप्तिं यावत् स्यात् ॥४३।। अथैवं कृतपरिकर्मा यत् करोति तदाह
गच्छा विणिक्खमित्ता, पडिवज्जइ मासिअं महापडिमं । दत्तेग भोअणस्सा, पाणस्स वि एग जा मासं ॥४४॥ [पञ्चा०१८।७, प्रव०५७८]
व्या० गच्छात् साधुसमुदायाद्विनिष्क्रम्य तं विमुच्येत्यर्थः, तत्र यद्याचार्यादिः प्रतिपत्ता तदा अल्पकालिकं साध्वन्तरे स्वपदनिक्षेपं कृत्वा शुभेषु द्रव्यादिषु शरत्काले सकलसाध्वामन्त्रणक्षामणपूर्वकं प्रतिपद्यते अभ्युपगच्छति मासिकी मासप्रमाणां महाप्रतिमां गुरुप्रतिज्ञाम् । तत्र
च दत्तिरविच्छिन्नदानरूपा एका एकैव भोजनस्य अन्नस्याज्ञातोञ्छरूपस्य 10 उद्धृताद्युत्तरैषणापञ्चकोपात्तस्यालेपकारिणः कृपणादिभिरजिघृक्षितस्य एकस्वामिसत्कस्यैवाऽ
गुर्विणी-बालवत्सापीयमानस्तनाभिः एलुकस्यान्तरे एकं पादं विन्यस्यापरं बहिर्व्यवस्थाप्य दीयमानस्य, तथा पानस्यापि पानकाहारस्य चैकैव मासिकप्रतिमायां दत्तिर्भवेदिति ॥४४॥
पच्छा गच्छमईई, एवं दुमास तिमासि जा सत्त ।
नवरं दत्तिविवड्डी, जा सत्त उ सत्तमासीए ॥४५॥ [पञ्चा० १८।१३, प्रव० ५८१] 15 व्या० पश्चात् मासपूरणानन्तरं गच्छं साधुसमूहमत्येति प्रविशति विभूत्या, तथाहि
गच्छस्थानासन्नग्रामे आगच्छत्यसौ, आचार्यस्तु तत्प्रवृत्तिमन्विच्छति ततो नृपादीनां निवेद्यते, यथा-परिपालितप्रतिमारूपमहातपाः साधुरत्रागतस्ततो नृपादिलोकैः श्रमणसङ्घन चाभिनन्द्यमानस्तत्र प्रवेक्ष्यते, तपोबहुमानार्थं तस्य तदन्येषां श्रद्धावृद्ध्यर्थं प्रवचनप्रभावनार्थं चेति, एवमाद्योक्ता,
शेषाः षडतिदिशन्नाह- एवं अनेनैव क्रमेण द्विमासिकी यावत् सप्त प्रतिमाः सप्तमासिक्यन्ताः, 20 नवरं केवलम्, प्रथमाया मासिक्याः प्रतिमायाः सकाशाद् द्विमासिक्यादीनामयं विशेषः, यथा
दत्तयस्तासु वर्द्धन्ते, तत्र द्वैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तिद्वयम्, त्रैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तित्रयम्, एवं यावत् सप्तमासिक्यां भक्तस्य पानस्य च सप्त सप्त दत्तयः ॥४५॥ अथाष्टमीमाह
तत्तो अ अट्ठमी खलु, हवइ इहं पढम सत्तराइंदी । 25 तीए चउत्थचउत्थेण, अपाणएणं अह विसेसो ॥४६॥
उत्ताणगपासल्ली, नेसज्जी वावि ठाणं ठाइत्ता । इइ उवसग्गे घोरे, दिव्वाई सहइ अविकंपो ॥४७॥
[प्रवचनसारो० ५८२-५८३, पञ्चाशक० १८।१४-१५] । १. द्विमासा एवं त्रिमासा यावत्-पञ्चाशकवृत्तौ । द्वैमासिकी त्रैमासिकी यावत्-प्रवचनसारोद्धारवृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org