________________
१३५
10
त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् पडिवज्जइ एआतो, संघयणधिइजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्मं गुरुणा अणुनाओ ॥४१॥ [पञ्चा० १८।४, प्रव० ५७५]
व्या० प्रतिपद्यते अभ्युपगच्छति एता अनन्तरोक्ताः प्रतिमाः संहननधृतियुतः । तत्र संहननं वज्रर्षभनाराचादेरन्यतरत्, तद्युक्तो ह्यत्यन्तं परीषहसहनसमर्थो भवति, धृतिश्चित्तस्वास्थ्यम्, तद्युक्तश्च रत्यरतिभ्यां न बाध्यते । महासत्त्व: सात्त्विकः, स ह्यनुकूल-प्रतिकूलोपसर्गेषु हर्ष- 5 विषादौ न विधत्ते । भावितात्मा सद्भावनाभावितान्तःकरणः, प्रतिमानुष्ठानेन वा भावितात्मा, तद्भावना च तुलनापञ्चकेन तवेण सत्तेणे [बृहत्कल्पभा० १३२८]त्यादिरूपेणान्यत्र व्याख्यातेन। कथं भावितात्मा ? इत्याह- सम्यग् यथाऽऽगमम्, तथा गुरुणाऽऽचार्येणानुज्ञातोऽनुमतः, अथ गुरुरेव प्रतिपत्ता तदा व्यवस्थापिताचार्येण गच्छेन वाऽनुमत इति ॥४१॥
गच्छे च्चिअ निम्माओ, जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइअवत्थू, होइ जहन्नो सुआभिगमो ॥४२॥ [पञ्चाशक० १८।५, प्रव० ५७६]
व्या० गच्छ एव साधुसमुदायमध्य एव तिष्ठन् निर्मात आहारादिविषये प्रतिमाकल्पपरिकर्मणि परिनिष्ठितः । कियांस्तस्य श्रुताभिगम इत्याह-यावत् पूर्वाणि दश असम्पूर्णानि किञ्चिदूनानि, सम्पूर्णदशपूर्वधरो ह्यमोघवचनत्वाद्धर्मदेशनया भव्योपकारित्वात्तीर्थवृद्धिकारित्वात् प्रतिमादिकल्पं न प्रतिपद्यते । भवेत् स्यात्, श्रुताधिगम इति योगः, उत्कृष्टश्चायम्, जघन्यस्य वक्ष्यमाणत्वाद- 15 तस्तमेवाह- नवमस्य पूर्वस्य प्रत्याख्याननामकस्य तृतीयं वस्तु आचाराख्यं तद्भागविशेष यावदिति वर्त्तते, स्याजघन्योऽल्पीयान् श्रुताधिगमः श्रुतज्ञानं सूत्रतोऽर्थतश्च, एतच्छ्रुतविरहितो हि निरतिशयज्ञानत्वात् कालादि न जानाति ॥४२।।
वोसट्टचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीआ, भत्तं च अलेवडं तस्स ॥४३॥ [पञ्चाशक० १८।६, प्रव० ५७७] 20
व्या० व्युत्सृष्टः परिकर्माभावेन, त्यक्तो ममत्वत्यागेन, देहः कायो येन सः तथा, उपसर्गसहो दिव्य-मानुष-तैरश्चोपद्रवसोढा, यथैव यद्वदेव जिनकल्पी जिनकल्पिकस्तद्वदुपसर्गसह इत्यर्थः । एषणा पिण्डग्रहणप्रकारः, सा च सप्तविधा संसंढेत्यादिरूपा, तत्राभिगृहीता अभिग्रहवती, अभिग्रहश्चैवम्- तासां सप्तानामेषणानां मध्ये आद्ययोर्द्वयोरग्रहणं पञ्चसु ग्रहणम्, पुनरपि विवक्षितदिवसे अन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः, एका भक्ते एका च पानके । तथा 25
१. पञ्चाशकवृत्ति- प्रवचनसारोद्धारटीकयोः तुलनार्थं द्रष्टव्यम् । २. तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता पडिम पडिवज्जओ ।। इति सम्पूर्णा गाथा ॥ ३. संसट्ठमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहीया पग्गहीया उज्झियधम्मा य सत्तमिआ ॥ इति सम्पूर्णा गाथा।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org