SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे व्या० अल्पाहारोनोदरिका १ अपार्द्धानोदरिका २ द्विभागोनोदरिका ३ प्राप्तोनोदरिका ४ तथा किञ्चिदूनोदरिका ५ अष्ट- द्वादश-षोडश- चतुर्विंशतिस्तथैकत्रिंशच्च यथासङ्ख्यं योजनीयम्। इदमत्र तात्पर्यम्- अल्पाहारोनोदरिका नाम एककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्याऽष्टकवलमाना उत्कृष्टा द्व्यादिकवलमानभेदा मध्यमा, एवं नवभ्यः 5 कवलेभ्य आरभ्य यावद् द्वादश कवलास्तावदपार्द्धानोदरिका, अत्रापि नवकवला जघन्या द्वादशकवलोत्कृष्टा शेषा तु मध्यमा, एवं त्रयोदशभ्य आरभ्य यावत् षोडश कवलास्तावद् द्विभागोनो दरिका, भेदत्रयभावना पूर्ववत्, एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिक वलास्तावत्प्राप्तोनोदरिका, एवं पञ्चविंशतेराभ्य यावदेकत्रिंशत् कवलास्तावत्किञ्चिदूनोदरिका, जघन्यादिभेदत्रयं पूर्ववद्भावनीयम्। एवमनेनानुसारेण पानीयेऽपि 10 भावनीया । तथा स्त्रीणामप्येवं पुरुषानुसारेण द्रष्टव्या ||३८|| भावत ऊनोदरिकामाहकोहाईणमणुदिणं, चाओ जिणवयणभावणाओ । भावेणोणोदरिआ, पन्नत्ता वीअरागेहिं ॥३९॥ व्या० क्रोधादीनाम् अनुदिनं प्रतिवासरं त्यागो जिनवचनभावनातः, इयं भावेनाऽवमोदरिका भावेनोनोदरिकेत्यर्थः, प्रज्ञप्ता वीतरागैः ॥ ३९ ॥ 15 १३४ प्रतिमाः प्रतिपादयति [पृ०२५३] मासाई सत्ता ७, पढमा १ बिइ२ तइअ३ सत्तराइदिणा१० । अहराइ ११ एगराई१२, भिक्खुपडिमाण बारसगं ॥४०॥ [आव०मू०भाष्य, पञ्चाशक० १८।३, प्रवचनसारो० ५७४ ] व्या० मासादयो मासप्रभृतयः सप्तान्ताः सप्तमासावसाना एकैकमासवृद्ध्या सप्त 20 भवन्ति । तत्र मासः परिमाणमस्यां मासिकी प्रतिमा प्रथमा, एवं द्विमासिकी द्वितीया, त्रिमासिकी तृतीया, यावत् सप्तमासिकी सप्तमी । पढमा बिइअ तइअ सत्तराइदिण त्ति सप्तानां प्रतिमानामुपरि प्रथमा द्वितीया तृतीया च सप्त रात्रिदिनानि रात्रिन्दिवानि प्रमाणतो यस्यां सा तथा प्रतिमा भवति । तदभिलापश्चैवम् - प्रथमा सप्तरात्रिन्दिवा, द्वितीया सप्तरात्रिन्दिवा, तृतीया सप्तरात्रिन्दिवा च, एताश्च तिम्रोऽपि क्रमेणाष्टमी नवमी दशमी चेति । अहराइ त्ति अहोरात्रं 25 परिमाणमस्याः सा अहोरात्रिकी एकादशी प्रतिमा । एगराइ त्ति एकरात्रिर्यस्यां सा एकरात्रि:, एकरात्रिरेवैकरात्रिकी द्वादशी प्रतिमा च, इत्येवं भिक्षुप्रतिमानां साधुप्रतिमाविशेषाणां द्वादशकं भवतीति ॥४०॥ अथ य एताः प्रतिपद्यते तमाह १. तुलना- प्रवचनसारोद्धारवृत्तिः भाग - १ पृ. १७३ । २. तुलना - पञ्चाशकवृत्तिः प्रवचनसारोद्धारवृत्तिश्च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy