________________
१३३
त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् भवति प्रायोग्यम्, संहृतं नाम संह्रियमाणम्, आस्ये प्रक्षिप्यमाणं प्रतीतम् । अत्राह- ननु 'जं च आसगम्मि पक्खिवई' [व्यवहारसू० २४४] इत्यस्यायमर्थः- यत् आस्यके मुखे प्रक्षिपति, तथो(च्चो?)च्छिष्टमिति लोके जुगुप्सा, ततः कथं तद् गृह्यते ? सूरिराह- आदेसो इति, कुटो घटस्तस्य यन्मुखम्, तदादिषु, आदिशब्दात् पिठरमुखादिपरिग्रहस्तत्र आदेशो व्याख्यानम्, किमुक्तं भवति ? पिठरमुखादीन्यधिकृत्य ‘जं च आसगम्मि पक्खिवई' इति सूत्रं व्याख्यातमत्र 5 न कश्चिद्दोषः । अत्र च श्रीगुरुभिः केनापि हेतुनाऽऽद्यं पदद्वयं विहायान्त्यमेव तल्लिखितम्, परम् अर्थसङ्गतये सुखावबोधाय चास्माभिः पूर्णा गाथा लिखिता व्याख्याता च ॥३४॥
जं वदृइ उवयारे, उवगरणं तं से होइ उवगरणं । अइरेगं अहिगरणं, अजओ अजयं परिहरंतो ॥३५॥
व्या० यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं से अस्य 10 साधोर्भवतीति, यत् पुनरतिरेकं ज्ञानादीनामुपकारे न भवति तत् सर्वमधिकरणं भवति । किंविशिष्टस्य सतः? अयतोऽयत्नवतः, अयतनया परिहरन् प्रतिसेवमानः तदुपकरणं भवतीति। परिहरंतो त्ति इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्त्तत इति ॥३५॥
बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला ॥३६॥ [पिंडनि० ६४२] 15
व्या० पुरुषस्य कुक्षिपूरक आहारो मध्यमप्रमाणो द्वात्रिंशत् कवला:, किलेत्याहारस्य मध्यमप्रमाणतासंसूचकः, महेलाया: कुक्षिपूरक आहारो मध्यमप्रमाणोऽष्टाविंशतिः कवला इति ॥३६॥
कवलाण य परिमाणं, कुक्कुडिअंडगपमाणमेत्तं तु । जो वा अविगिअवयणो, वयणम्मि छुहेज्ज वीसत्थो ॥३७॥
व्या० कवलानां च परिमाणं कुक्कुट्यण्डकप्रमाणमात्रम्, तत्र कुक्कुटी द्विधा-द्रव्यकुक्कुटी भावकुक्कुटी च, तत्र साधोः शरीरमेव कुक्कुटी, तन्मुखमण्डकम्, तत्राऽक्षि-कपोलौष्ठ-भ्रुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति, तत् प्रमाणं कवलस्य । अथवा कुक्कुटी पक्षिणी, तस्या अण्डकं प्रमाणं कवलस्य । तथा यावन्मात्रेणाहारेण भुक्तेन न न्यूनं नाप्याध्मातम् उदरं भवति धृतिश्च विशिष्टा सम्पद्यते ज्ञान-दर्शन-चारित्राणां च वृद्धिरुपजायते तावत्प्रमाण आहारो 25 भावकुक्कुटी, तस्य द्वात्रिंशत्तमो भागोऽण्डकम्, तत् प्रमाणं कवलस्य, शेषमुक्तार्थमेव ॥३७॥
अप्पाहार १ अवड्डा २, दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा ५ य ॥३८॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org