________________
१३२ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे ___ व्या० फलिअं इति फलितं नाम यद् व्यञ्जनैर्भक्ष्यैर्वा नानाप्रकारैर्विरचितं प्रहेणकादि, प्रहेणकं लंभनकम्, आदिशब्दात् सरजस्कानां दानाय कल्पितं परिगृह्यते। उपहृतशब्दस्यार्थमाहयत् भोक्तुमनस उपहृतं तदुपहतमित्युच्यते । एषा पञ्चमी पिण्डैषणा ॥२९॥ [पृ०२५०] सुद्धं तु अलेवकडं, अहवण सुद्धोदणो भवे सुद्धं । 5 संसटुं आदत्तं, लेवाडमलेवडं चेव ॥३०॥ व्यवहारभा० ९।३८२०] ___व्या० यदलेपकृतं काञ्जिकेन पानीयेन वा सन्मिश्रीकृतं तच्छुद्धम्, अथवा शुद्धौदनो व्यञ्जनरहितो भवति शुद्धम्, तदपि नियमादलेपकृतम् । संसृष्टं नाम भोक्तुकामेन आदत्तं गृहीतम्, किमुक्तं भवति ? यत् स्थाले परिवेषितं तत्र ग्रहणाय हस्तः क्षिप्तः, न तावदद्यापि मुखे प्रक्षिपति, अत्रान्तरे साधुरागतो भिक्षार्थम्, तल्लेपकृतमलेपकृतं वा संसृष्टमित्युच्यते ॥३०॥ 10 भुंजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ ।
जहन्नोवहडं तं तु, हत्थस्स परिअत्तणा(णे?) ॥३१॥ व्यवहारभा० ९।३८३८]
व्या० परिवेषकः पिटिकायां कूरं गृहीत्वा दक्षिणहस्तेन परिवेषयन् यस्य दातुकामस्तस्य भाजने क्षिपामीति व्यवसितः, तस्य तथा भुञ्जानस्योत्क्षिप्तम्, तद्भुञ्जानेन प्रतिषिद्धम् पर्याप्तम्,
मा मह्यं देहि । अस्मिन् देशकाले साधुना तत्र प्राप्तेन धर्मलाभितम्, तत: परिवेषको ब्रूते15 साधो ! साधय पतद्ग्रहम्, साधुना पात्रं धारितम्, तत्र तेन प्रक्षिप्तम्, इदं हस्तमात्रस्य परिवर्तनात्, गाथायां सप्तमी पञ्चम्यर्थे, जघन्यमुपहृतं भवति ॥३१।।
अह साहीरमाणं तु वट्टेउं जो उ दावए । दलेजऽचलिओ तत्तो, छट्ठी एसा वि एसणा ॥३२॥ [व्यवहारभा० ९।३८२९]
व्या० अथ वर्तयितुं संह्रियमाणं यो दापयेत्, तस्य वचनतः स परिवेषकस्तस्मात् 20 स्थानान्मनागप्यचलितो दद्यात्, एतत् संह्रियमाणमुच्यते, एषाऽपि षष्ठी एषणा द्रष्टव्या ॥३२॥ [पृ०२५१] भुत्तसेसं तु जं भूओ, छुन्भंती पिठरे दए ।
संवटुंती व अन्नस्स, आसगम्मि पगासए ॥३३॥ व्यवहारभा० ९।३८३०] व्या० प्रह्लादननिमित्तं कलिञ्जभाजने विशाले उत्ताने च क्षिप्तम्, ततो भोक्तुमुपविष्टान् दत्त्वा यद्भक्तशेषं तद् भूयः पिठरे क्षिपन्ती साधवे दद्यात्, यदिवा अन्यस्य भाजने प्रकाशके 25 प्रकाशे आस्यके तस्य मुखे संवर्द्धयन्ती दद्यात् ॥३३॥ [पृ०२५१] साहिरमाणं गहिअं, दिजंतं जं च होति पाजोग्गं ।
पक्खेवए दुगुंछा, आएसो कुडमुहाईसु ॥३४॥ गाथार्द्धम् । [व्यवहारभा० ९।३८२६] व्या० इहानानुपूर्व्या ग्रहणं बन्धानुलोमतस्तत एवं द्रष्टव्यम्, गृहीतं नाम यद्दीयमानं यच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org