________________
10
त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम्
१३१ पागारपरिक्खित्ता, वट्टविमाणा हवंति सव्वे वि । चउरंसविमाणाणं, चउद्दिसिं वेइआ होई ॥२५॥ [विमान० २४९]
व्या० तत्र प्राकारपरिक्षिप्ता: वृत्तविमाना: भवन्ति सर्वेऽपि, कपिशीर्षविभूषितप्राकारपरिक्षिप्तास्सर्वे वृत्तविमाना इत्यर्थः । चतुरस्रविमानानां पुनः चतसृषु दिक्षु वेदिका भवन्ति, वेदिकानाम्नाऽत्र मुण्डप्राकारा वेदितव्याः ॥२५॥
जत्तो वट्टविमाणा, तत्तो तंसस्स वेइआ होइ । पागारो बोधव्वो, अवसेसेहिं तु पासेहिं ॥२६॥ [विमान० २५०]
व्या० यत इति यस्यां दिशि वृत्तविमानं ततस्तस्यां दिशि त्र्यम्रस्य वेदिका भवति, प्राकारो बोद्धव्योऽवशेषैः पार्वैः अवशिष्टेषु पार्श्वेषु प्राकारो ज्ञातव्यः ॥२६॥
आवलिआसु विमाणा, वट्टा तंसा तहेव चउरंसा ।। पुप्फावगिण्णया पुण,अणेगविहरूवसंठाणा ॥२७॥ [विमान० २५१]
व्या० आवलिकासु विमाना आवलिकाप्रविष्टविमानाः केचिद् वृत्ताः, केचित् त्र्यम्राः, केचिच्चतुरस्राः, अन्यत् संस्थानं तेषां सर्वथा न विद्यते, तथाऽत एव निश्चयेन, पुष्पावकीर्णकाः पुनरनेकविधरूपसंस्थानाः, तद्यथा- किंचिन्नन्द्यावर्त्ताकारं किंचित् स्वस्तिकाकारं किंचित् खड्गाकारमित्यादि, सर्वत्र विमानशब्दस्य पुंन्नपुंसकत्वादेवं निर्देशः ॥२७॥ [पृ०२४७] घणउदहिपइट्ठाणा, सुरभवणा होंति दोसु कप्पेसु ।
तिसु वाउपइट्ठाणा, तदुभयसुपइट्ठिया तिसु ॥२८॥ [बृहत्सं० १२६] ___ व्या० घनोदधिप्रतिष्ठानाः सुरभवना: सुरविमानानि, भवनशब्दस्य पुन्नपुंसकत्वादेवं निर्देशः, यदाह हेमसूरिः स्वोपज्ञलिङ्गानुशासने- भवन-भुवन-यानोद्यान-वातायनानि [लिङ्गा० २०] इति । प्रतिष्ठन्तेऽस्मिन्निति प्रतिष्ठानम् आश्रयः, क्व ?, द्वयोः कल्पयोस्सौधर्मेशानयोर्विमाना: 20 त्रिषु सनत्कुमार-माहेन्द्र-ब्रह्मकल्पेषु विमानाः वातप्रतिष्ठानाः, तदुभयेति घनोदधिघनवातप्रतिष्ठानास्त्रिषु लान्तक-शुक्र-सहस्रारकल्पेषु विमानाः । तत्र घनोदधिः स्त्यानीभूतो जलराशिः, स च तथा जगत्स्वाभाव्यान्नापि स्पन्दते नापि तत्राश्रितानि विमानानि विलयमुपयान्ति, घनवातोऽत्यन्तनिचितोऽपरिस्पन्दो वातराशिः ॥२८॥
तेण परं उवरिमगा, आगासंतरपइट्ठिआ सव्वे । [बृहत्सं० १२७]
व्या० ततः परमानतादिविमानान्याकाशप्रतिष्ठितानीति सार्द्धगाथार्थः ।। [पृ०२४९] फलिअं पहेणगाई, वंजणभक्खेहि वा विरइअं जं ।
__ भोत्तुमणस्सोवहिअं, पंचमपिंडेसणा एसा ॥२९॥ [व्यवहारभा० ९।३८२१]
25
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org