SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ 10 १३० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे वर्णितं किल वैषयिकसुखार्थिनाऽपि सत्त्वेन धर्म एव यत्नः कार्यः, तस्मिन् सति तस्य प्रासङ्गिकत्वात्, न पुनस्तत् परमार्थतः सुखम्, विपर्यासाद् दु:खेऽपि सुखबुद्धिप्रवृत्तेर्विपाकदारुणत्वात्, तथा चाह तं सुरविमाणविहवं, चिंतिअ चवणं च देवलोगाओ । अइबलिअं चिअ जं नवि फुइ सयसक्करं हिअयं ॥२०॥ [उप० माला० २८६] व्या० तमिति प्राग्वर्णितं सुरविभवं चिन्तयित्वा पर्यालोच्य च्यवनं च पतनं च देवलोकात्, किम् ? अतिबलिनमेव गाढं निष्ठुरमेव यन्नापि नैव स्फुटति शतशर्करं हृदयम्, अस्त्येव तस्य स्फोटे महत् कारणमिति ॥२०॥ [पृ०२४६] सव्वेसु पत्थडेसुं, मज्झे वर्ट अणंतरं तंसं । ___एअंतरचउरंसं, पुणो वि वढे पुणो तंसं ॥२१॥ [विमान० २४५] व्या० सर्वेषु प्रस्तटेषु मध्ये वृत्तम्, तदनन्तरं त्र्यसम्, तदनन्तरं चतुरस्रम् । पुनरपि वृत्तम्, तदनन्तरं त्र्यम्रम्, ततश्चतुरस्रम् । ततो भूयोऽपि वृत्तम्, तदनन्तरं त्र्यम्रम्, एवं तावद् द्रष्टव्यं यावदावलिकायाः पर्यन्तः ॥२१।। वढे वस्सुवरिं, तसं तंसस्स उप्परिं होई । चउरंसे चउरंसं, उटुं तु विमाणसेढीओ ॥२२॥ [विमान० २४६] व्या० प्रथमप्रस्तटाच्चोर्ध्वं द्वितीयादिषु यान्यावलिकाप्रविष्टविमानानि तानि प्रथमप्रस्तटगतावलिकाप्रविष्टैर्विमानस्सह समश्रेण्या व्यवस्थितानि, तद्यथा- वृत्तं वृत्तस्योपरि, त्र्यसं व्यस्रस्योपरि भवति, चतुरस्र चतुरस्रम्, ऊर्ध्वं तु विमानश्रेणय एव भवन्तीति गाथार्थः ॥२२॥ 20 वटं च वलयगं पिव, तंसं सिघाडगं पिव विमाणं । चउरंस विमाणं पि य, अक्खाडगसंट्ठिअं भणिअं ॥२३॥ [विमान० २४७] व्या० वृत्तं च नाम वलयाकारकमवसेयम्, त्र्यसं शृङ्गाटकसंस्थानम् इव विमानम्, चतुरस्रं विमानं पुन: अक्षपाटकसंस्थानं जानीहि ॥२३॥ सव्वे वट्टविमाणा, एगदुवारा हवंति विन्नेया । 25 तिण्णि अ तंसविमाणे, चत्तारि अ होंति चउरंसे ॥२४॥ [विमान० २४८] व्या० सर्वे वृत्तविमाना एकद्वारा भवन्ति विज्ञेयाः, त्रीणि च द्वाराणि त्र्यसविमाने, जातावेकवचनं सर्वत्र, चत्वारि द्वाराणि भवन्ति चतुरस्रे ॥२४।। 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy