________________
10
त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम्
१२९ पूर्वरात्रापररात्रकाले सम्प्रेक्षते- किं मया कृतम् ? किं वा मे कर्त्तव्यशेषम् ? किं वा शक्यमपि तपःकर्मादिकमहं न करोमि ? इत्यादि । वज त्ति अकारप्रश्लेषादवद्यं पापम्, सूचनात् सूत्रमिति कृत्वा तद्भीरुरवद्यभीरुः । ओजस्तेजश्चोभयं विद्यते यस्य स ओजस्वी तेजस्वी चेति, ओजो नाम शरीरेण नातिदैर्घ्य नातिह्रस्वता नातिस्थौल्यं नातिदुर्बलता, अथवा शरीरोच्छ्रयः बाह्वोर्विष्कम्भश्च, एतौ द्वावपि तुल्यौ, न हीनाधिकप्रमाणौ, चितमांसत्वं यद्वपुषः पांसुलिका 5 नावलोक्यन्ते, तथा इन्द्रियाणि च प्रतिपूर्णानि, न चक्षुःश्रोत्राद्यवयवविकलतेति भावः, एतत् सर्वम् ओज उच्यते, तद्यस्यास्ति स ओजस्वी । तेजः पुनर्देहे शरीरेऽनपत्रप्यता अलज्जनीयता दीप्तियुक्तत्वेनापरिभूतत्वम्, तद्विद्यते यस्य स तेजस्वी । यदाह भाष्यकारः
आरोहपरीणाहो, चिअमंसो इंदिआ य पडिपुण्णा । अह ओअ तेओ पुण होइ अणोतप्पया देहे ॥ [बृत्कल्पभा० २०५१]
सङ्ग्रहो द्रव्यतो वस्त्रादिभिर्भावतः सूत्रार्थाभ्याम्, उपग्रहो द्रव्यत औषधादिभिर्भावतो ज्ञानादिभिरेतयोः संयतीविषययोः सङ्ग्रहोपग्रहयोः कुशलस्तथा सूत्रार्थविद् गीतार्थः, एवंविधो गणाधिपतिरार्यिकाणां गणधरः स्थापनीयः ॥१७॥ [पृ०२४३] उद्धावणा पहावण-खेत्तोवहिमग्गणासु अविसाई ।
__सुत्तत्थतदुभयविऊ, गीयत्था एरिसा होइ ॥१८॥ [व्यवहारभा० १/९६२] 15
व्या० उत् प्राबल्येन धावनम् उद्धावनम्, प्राकृतत्वाच्च स्त्रीत्वनिर्देशः, किमुक्तं भवति ?, तथाविधगच्छप्रयोजनेषु समुत्पन्नेषु आचार्येण सन्दिष्टोऽसन्दिष्टो वाऽऽचार्यान् विज्ञप्य यथैतत् कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्ध्या करणे उद्धावनम्, शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनम्, क्षेत्रमार्गणा क्षेत्रप्रत्युपेक्षणा, उपधिमार्गणा उपधेरुत्पादनम्, एतासु ये अविषादिनो न विषादं गच्छन्ति । तथा सूत्रार्थतदुभयविदः, अन्यथा हेयोपादेयपरिज्ञानायोगात्, 20 एतादृशा एवंविधा गीतार्था गणावच्छेदिनो भवन्ति, क्वचिद् ‘गणवच्छो एरिसो होईति पाठस्तत्र स्पष्टतरमेव ॥१८॥ [पृ०२४५] देवा वि देवलोए, दिव्वाभरणाणुरंजिअसरीरा ।
जं परिवडंति तत्तो, तं दुक्खं दारुणं तेसिं ॥१९॥ [उप० माला० २८५] व्या० देवा अपि देवलोके दिव्यैराभरणैरनुरञ्जितं मण्डितं शरीरं येषां ते तथापि यत् 25 प्रतिपतन्ति अशुचौ गर्भादिकलिमलोदधौ मज्जन्ति ततो देवलोकात् तद् दुःखं दारुणं रौद्रं तेषां देवानाम् इति ॥१९॥
प्रागपरिमितं सुखवर्णनं तेषामनेन विरुद्धयेत इति चेत्तन्न, अभिप्रायापरिज्ञानातू, तद्ध्येतदर्थं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org