SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ १२८ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे व्या० निजगच्छादन्यस्मिन् गच्छे उपसम्पत् सीदनदोषादिना भवति ॥ पृ०२३८] उवसंपन्नो जं कारणं तु तं कारणं अपूरितो । ___ अहवा समाणिअम्मी, सारणया वा विसग्गो वा ॥१४॥ [आव०नि० ७२०] व्या० उपसम्पन्नो यत्कारणं यन्निमित्तम्, तुशब्दादन्यच्च सामाचार्यन्तर्गतं किमपि गृह्यते, 5 तत् कारणं वैयावृत्यादि अपूरयन् अकुर्वन्, यदा वर्त्तत इत्यध्याहारः, किम् ? तदा सारणा वा विसर्गः, तस्य सारणा चोदना वा क्रियते अविनीतस्य पुनर्विसर्गो वा परित्यागो वा क्रियत इति । तथाऽनापूरयन्नेव तदा वर्त्तते तदैव सारणा विसर्गो वा क्रियते किन्तु अथवा समाणिअम्मि त्ति अथवा समाप्तिं नीते अभ्युपगतप्रयोजने स्मारणा वा क्रियते यथा समाप्त तद्विसर्गो वेति गाथार्थः ॥१४।। 10 [पृ०२४२] तव-संजम-जोगेसुं, जो जोगो तत्थ तं पयट्टेइ । __ असहं च निअत्तेई, गणतत्तिल्लो पवत्ती उ ॥१५॥ [व्यवहारभा० १/९५९] व्या० तपस्संयमयोगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्त्तयन्ति, असहांश्च असमर्थांश्च निवर्त्तयन्ति, एवं गणतप्तिप्रवृत्ताः प्रवर्तिनः ॥१५॥ उक्तं च प्रवर्तिस्वरूपम्, अधुना स्थविरस्वरूपमाह15 थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसु । जो जत्थ सीअइ जई, संतबलो तं थिरं कुणइ ॥१६॥ व्यवहारभा० १/९६१] व्या० स स्थिरीकरणात् स्थविर इति, यो ज्ञान-दर्शन-चारित्रेषु मध्ये यानर्थानुपादेयान अनुष्ठानविशेषान् परिहापयति हानि नयति तान् संस्मारयन् भवति स्थविरः, सीदमानान् साधून ऐहिकामुष्मिकापायदर्शनतो मोक्षमार्गे स्थिरीकरोति, केषु ? प्रवर्त्तिव्यापारितेषु अर्थेषु यो 20 यत्र सीदति यतिः, सद्विद्यमानं बलं यस्य स सद्बलस्तथाभूतस्सन् प्रणोदयति प्रकर्षेण शिक्षयति स स्थिरीकरणात् स्थविर इति ॥१६॥ गणाधिपस्वरूपमाह पियधम्मे दढधम्मे, संविग्गेऽवज ओअतेअंसी । संगहउवग्गहकुसलो, सुत्तत्थविऊ गणाहिवई ॥१७॥ निशीथभा० २४४९, बृहत्कल्पभा० २०५०] 25 व्या० प्रिय इष्टो धर्मः श्रुतचारित्ररूपो यस्य स प्रियधर्मा, यस्तु तस्मिन्नेव धर्मे दृढो द्रव्य-क्षेत्राद्यापदुदयेऽपि निश्चलः स दृढधर्मा, राजदन्तादित्वाद् दृढशब्दस्य पूर्वनिपातः । संविग्नो द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो मृगः, सदैव त्रस्तमानसत्वादिति । भावतो यः संसारभयोद्विग्नः १. तुल्यप्रायं बृहत्कल्पभाष्यवृत्तौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy