________________
त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम्
१२५ साधनमुच्छूनं भवति ततस्तदनुग्रहार्थं चोलपट्टो मतः । तथा प्रकृत्यैव कश्चित् साधुह्रीमान् लज्जालुर्भवति ततस्तत्प्रावरणाय चोलपट्टः । तथा स्वभावेन कश्चित् खद्धपजणण त्ति बृहत्साधनो भवति लोकश्च तं तथाविधं दृष्ट्वा हसति, ततस्तथाविधानुग्रहाय चोलपट्टः । तथा लिङ्गोदयार्थं चोलपट्टम्, कदाचिन्मनोहररूपामनुपमयौवनां वनितां विलोक्य लिङ्गस्योदयो भवति, अथवा तदीयं लिङ्गं मनोहरं चोलपट्टानाच्छादितं दृष्ट्वा स्त्रिया एव लिङ्गोदयो भवति, ततस्तत्प्रच्छादनाय 5 चोलपट्टोऽनुज्ञात इति । इति चोलपट्टप्रयोजनम् ॥१॥ अथ कल्पप्रयोजनमाह[पृ०२३४] तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा ।
दिळं कप्पग्गहणं, गिलाणमरणट्ठया चेव ॥२॥ [ओघनि० ७०६, प्रवचनसारो० ५१७]
व्या० तृणानां व्रीहिपलालादीनां ग्रहणं तृणग्रहणम्, अनलोऽग्निस्तस्य सेवा, तयोर्निवारणार्थं कल्पग्रहणम् । असति कल्पे शीतादौ सति गाढे पलाला-ऽग्निसेवामवश्यं 10 करोति, तत्करणे च जीववधः । तथा धर्म-शुक्लध्याननिमित्तं दृष्टम् अनुज्ञातं कल्पग्रहणं तीर्थकृद्भिः। शीताद्युपद्रवे हि कल्पप्रावृतः सुखेन धर्म-शुक्लध्याने करोतीति, अन्यथा शीतादौ कम्पमानकायो दन्तवीणामनवरतं वादयन् कथङ्कारं ते ध्याने विधास्यतीति ? । तथा ग्लानसंरक्षणार्थं दृष्टं कल्पग्रहणम्, अन्यथा शीतवातादिना बाध्यमानो ग्लानो गाढतरं ग्लानो भवति । तथा मरणार्थं कल्पग्रहणम्, मृतस्य ह्युपरि प्रच्छादनार्थं कल्पः क्रियते, इतरथा लोकव्यवहारादिबाधा 15 कृता भवति ॥२॥ पात्रग्रहणे गुणानाह
अतरंतबालवुड्डा, सेहादेसा गुरू असहुवग्गे । साहारणोग्गहाऽलद्धिकारणा पायगहणं तु ॥३॥ [ओघनि० ६९२]
व्या० अशक्नुवद्वालवृद्धा: ग्लान-बाल-वृद्धा इत्यर्थः, तथा शिक्षका-ऽऽदेशौ अभिनवप्रव्रजित-प्राघूर्णकौ, तथा गुरुराचार्यादिः, तथा असहिष्णुवर्गः क्षुत्पिपासाद्यसहनशीलः, 20 एतानाश्रित्य साधारणावग्रहकारणात् साधारणावग्रहनिमित्तम्, तथा अलब्धिकारणम् अविद्यमानलब्धिनिमित्तं पात्रग्रहणं तु पात्रग्रहणमेव जिनैरभिहितम् ॥३॥ [पृ०२३६] एगं व दो व तिण्णि व, आउटुंतस्स होइ पच्छित्तं ।
आउटुंते वि तओ, परेण तिण्हं विसंभोगो ॥४॥ [निशीथ० २०७५] __ व्या० साम्भोगिकोऽशुद्धमेकवारं गृह्णन् चोदितो भणति-सती प्रतिचोदना कृता भवद्भिर्मिथ्या 25 मे दुष्कृतम्, न पुनरेवं करिष्यामि, एवमादृतस्सन् यत् प्रायश्चित्तमापन्नो भवति स तस्य तत् प्रायश्चित्तं दत्त्वा साम्भोगिकः क्रियते, एवं द्वितीयवारं तृतीयवारं यावदादृतस्य यथायोग्यं प्रायश्चित्तं दीयते । त्रिभ्यो वारेभ्यः परतश्चतुर्थवारं पुनस्तमेवातिचारं सेवित्वा आदृतोऽपि विसम्भोगोऽसाम्भोगिक एव क्रियत इति ॥४॥ १. तुलना-प्रवचनसारोद्धारवृत्तिः गा. ५१७ ॥ २. तुलना-निशीथचूर्णिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org