SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ १२४ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे इत्थमनयोः प्रवृत्तिः । तथा क्वचिदपृष्टा एव सन्तः पूर्वपक्षमाशक्य किञ्चित् कथयन्त्याचार्याः प्रत्यवस्थानमिति गम्यते । किमर्थं कथयन्ति ? अत आह-शिष्याणामेव हितार्थम्, तुशब्द एवकारार्थः । तथा विपुलतरं तु प्रभूततरं तु कथयन्ति पुच्छाए त्ति शिष्यप्रश्ने सति प्राज्ञोऽयमित्यवगमादिति गाथार्थः ॥२४॥ पमाओ अ मुणिंदेहिं, भणिओ अट्ठभेअओ । अन्नाणं संसओ चेव, मिच्छाणाणं तहेव य ॥२५॥ रागो दोसो मइन्भंसो, धम्मम्मि अ अणायरो । जोगाणं दुप्पणिहाणं, अट्टहा वज्जिअव्वओ ॥२६॥ [प्रवचनसारो० १२०७-८] व्या० प्रमाद्यति मोक्षमार्ग प्रति शिथिलो भवति अनेन प्राणीति प्रमादः, स च मुनीन्द्रैः 10 तीर्थकृद्भिर्भणितः प्रतिपादितोऽष्टभेदोऽष्टप्रकारः, तद्यथा-अज्ञानं मूढता, संशयः किमेतदेवं स्यादुतान्यथेति सन्देहः, मिथ्याज्ञानं विपर्यस्ता प्रतिपत्तिः, रागोऽभिष्वङ्गः, द्वेषोऽप्रीतिः, स्मृतिभ्रंशो विस्मरणशीलता, धर्मे चाहत्प्रणीतेऽनादरोऽनुद्यमः, योगानां मनोवाक्कायानां दुष्प्रणिधानं दुष्टताकरणम्, अयं चाष्टविधोऽपि प्रमादः कर्मबन्धहेतुत्वाद्वर्जयितव्यः परिहर्त्तव्य इति त्रिस्थानकस्य द्वितीयोद्देशकविवरणगाथा । 15 [अथ त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् ] [पृ०२३३] “धारणया उ अभोगो, परिहरणा तस्स होइ परिभोगो । दुविहेण वि सो कप्पड़, परिहारेणं तु परिभोत्तुं ॥२३६७॥ इह द्विधा परिहारः, तद्यथा- धारणा परिहरणा च । तत्र धारणा अभोगः अव्यापारणम्, 20 संयमोपबृंहणार्थं स्वसत्तायां स्थापनमित्यर्थः । परिहरणा नाम तस्य घटीमात्रकादेरुपकरणस्य परिभोग: व्यापारणम् ।” इति बृहत्कल्पभाष्यस्य क्षेमकीर्तिसूरिवरिचितायां टीकायाम् ॥ वेउव्विऽवाउडे वाइए अ हीरिखद्धपजणणे चेव । तेसिं अणुग्गहट्ठा, लिंगुदयट्ठा य पट्टो उ ॥१॥ [ओघनि० ७२२,प्रवचनसारो० ५१८] व्या० यस्य साधोः प्रजननं साधनं वैक्रियं विकृतं भवति, यथा दाक्षिणात्यपुरुषाणामग्रभागे 25 विध्यते प्रजननम्, तच्च तथाविधं दृष्टं विकृतं भवति, ततस्तत्प्रच्छादनार्थं चोलपट्टोऽनुजज्ञे, अवाउडे त्ति पदं सर्वत्र सम्बध्यते, ततोऽप्रावृतेऽपरिहिते चोलपट्टके एते दोषा भवन्ति, यद्वा कश्चित् साधुरप्रावृतसाधनो भवति अग्रभागे चर्मणा अनाच्छादितलिङ्गो दुश्चर्मा इत्यर्थः, ततस्तदनुग्रहार्थं चोलपट्टोऽनुज्ञातः । तथा कश्चित् साधुर्वातिको भवति, वातेन च तदीयं १ तुलना-प्रवचनसारोद्धारवृत्तिः गा. ५१८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy