________________
10
१२६ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
पंचविहं आयारं, आयरमाणा तहा पयासंता । आयारं दंसेन्ता, आयरिआ तेण वुच्चंति ॥५॥ [आव०नि० ९९८]
व्या० पञ्चविधं पञ्चप्रकारम्, ज्ञान-दर्शन-चारित्र-तपो-वीर्यभेदात्, आचारमिति आ मर्यादया काललक्षणया नियमादिलक्षणया वा चार: आचार इति, उक्तं च- काले विणए [ ] इत्यादि, 5 तम् आचरन्तस्सन्तोऽनुष्ठानरूपेण, तथा प्रभाषमाणा अर्थाद् व्याख्यानेन, तथा आचारं दर्शयन्तस्सन्तः प्रत्युपेक्षणादिक्रियाद्वारेण मुमुक्षुभिः सेव्यन्ते येन कारणेन आचर्यन्ते तेन कारणेनैवोच्यन्ते आचार्याः ॥५॥
सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ अ । गणतत्तिविप्पमुक्को, अत्थं वाएइ आयरिओ ॥६॥
व्या० सूत्रं च अर्थश्च सूत्रार्थों, सूत्रार्थो वेत्तीति सूत्रार्थवित्, लक्षणानि मषी-तिलकादीनि, तैर्युक्तः, गच्छस्य साधुसमुदायस्य मेधिभूतः, खले गोबन्धदारु मेधिरुच्यते, यथा खले मेध्याधारा बलीवर्दाः परिभ्रमन्ति तथा साधवोऽपि आचार्याधारा विहरन्ति । गणतप्तिर्गणचिन्ता, तया विप्रमुक्तः, एतादृश आचार्यः स्व-परशिष्येभ्यः अर्थं शास्त्रार्थं वादयति अध्यापयतीत्यर्थः ।।६।।
अथोपाध्यायमाह15 सम्मत्तनाणदंसणजुत्तो सुत्तत्थतदुभयविहिण्णू ।
आयरिअठाणजोगो, सुत्तं वाएइ उवज्झाओ ॥७॥ व्या० सम्यक्त्वं च ज्ञानं च दर्शनं च सम्यक्त्व-ज्ञान-दर्शनानि, तैर्युक्तः, सूत्रं च अर्थश्च तदुभयं च सूत्रार्थतदुभयानि तेषां विधिः, तं जानातीति सूत्रार्थतदुभयविधिज्ञः,
आचार्यस्थानयोग्यः, यस्याचार्यपदाधानयोग्यता वर्त्तते आचार्यगुणैः षट्त्रिंशद्भिरपि स्वरूपतः 20 आश्रितो भवति, एतादृश उपाध्यायः स्व-परशिष्यान् सूत्रं द्वादशाङ्गीगतं वादयति अध्यापयतीति गाथार्थः ॥७॥
आचार्यपदयोग्यतामाहजम्हा वयसंपन्ना, कालोचिअगहिअसयलसुत्तत्था । अणुजोगाणुनाए, जोग्गा भणिआ जिणिंदेहिं ॥८॥ [पञ्चव० ९३२]
व्या० यस्माद् व्रतसम्पन्नाः साधवः कालोचितगृहीतसकलसूत्रार्थास्तदात्वानुयोगवन्त ___ इत्यर्थः । अनुयोगानुज्ञाया आचार्यपदस्थापनारूपाया योग्या भणिता जिनेन्द्रैर्नान्ये इति ॥८॥ कस्मादित्याह
इहरा उ मुसावाओ, पवयणखिंसा य होड़ लोगम्मि ।
सेसाण वि गुणहाणी, तित्थुच्छेओ अ भावेणं ॥९॥ [पञ्चव० ९३३] 30 व्या० इतरथाऽनीदृश्यनुयोगानुज्ञायां मृषावादो गुरोस्तमनुजानतः, प्रवचनखिंसा च
१. पभासंता आवश्यकनियुक्तौ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org