SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ १२२ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे एकैकगृहवृद्धिः कार्या । इयं गाथा परमगुरुभिः केनापि हेतुना दिग्विचारगाथाकदम्बकं लिखद्भिरपि नालेखि, परं नामं ठवणेत्यत्र द्रव्यदिगवश्यं वाच्येत्यर्थसङ्गतत्वेन लिखित्वेयं व्याख्यातेति ॥१४॥ क्षेत्रदिशमाह[पृ०२२४] अट्ठपएसो रुअगो, तिरियंलोअस्स मज्झयारम्मि । एस पभवो दिसाणं, एसेव भवे अणुदिसाणं ॥१५॥ [आचाराङ्गनि० ४२] व्या० तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्वन्तः द्वौ क्षुल्लकप्रतरौ, तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथा एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको दिशामनुदिशां च प्रभव उत्पत्तिः । स्थापना चेयम् मन ॥१५॥ 10 आसामेव स्वरूपनिरूपणायाह[पृ०२२५] दुपएसाइ दुदुत्तर ४, एगपएसा अणुत्तरा चेव । चउरो ४ चउरो अ दिसा, चउराइ अणुत्तरा दोण्णि ॥१६॥[आचाराङ्गनि० ४४] व्या० चतम्रो महादिशो द्विप्रदेशाद्याः द्विद्विप्रदेशोत्तरवृद्धा विदिशश्चतम्र एकप्रदेशरचनात्मिका: अनुत्तरा वृद्धिरहिताः, ऊर्ध्वाधोदिग्द्वयं त्वनुत्तरमेव ॥१६॥ चतुष्प्रदेशादिरचनात्मकमासां संस्थानमाह सगडुद्धिसंठिआओ, महादिसाओ हवंति चत्तारि । मुत्तावली उ चउरो, दो चेव य हुँति रुअगनिभा ॥१७॥ [आचाराङ्गनि० ४६] व्या० महादिशश्चतम्रोऽपि शकटोर्द्धिसंस्थाना विदिशश्च मुक्तावलिनिभाः, ऊर्ध्वाऽधो दिग्द्वयं रुचकाकारमिति ॥१७॥ अथ दशदिशां नामान्याह इंद १ ऽग्गेइ २ जम्मा ३ य, नेरई ४ वारुणी ५ अ वायव्वा ६ । 20 सोमा ७ ईसाणा वि ८, विमला ९ य तमा १० य बोद्धव्वा ॥१८॥ [आचाराङ्गनि० ४३] व्या० सुगमा चेयम्, नवरम्- आसामाद्यैन्द्री, विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्तावसेयाः, ऊर्ध्वं विमला तमा चाध इति ॥१८॥ तापदिशमाह जेसिं जत्तो सूरो, उदेइ तेसिं तई हवइ पुव्वा । 25 तावक्खेत्तदिसाओ, पयाहिणं सेसिआओ सिं ॥१९॥ [विशेषाव० २७०१] व्या० तापयतीति तापः सविता, तदपलक्षिता दिक् तापदिक्, सा चानियतेति तदेवाहजेसिमिति सुगमम्, केवलं येषां भरतादिक्षेत्रनिवासिनां पुंसां यस्यां दिशि सूर्य उदेति उद्गच्छति, १. आचाराङ्गसूत्रस्य शीलाङ्काचार्यवृत्तौ ॥ २. नेरुती-आचाराङ्गनिर्युक्तौ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy