________________
त्रिस्थानके द्वितीयोदेशकटीकागतगाथाविवरणम्
१२१
व्या० गुरोर्जातिस्थविरस्य कालस्वभावानुमत आहारो दातव्यः, उपधिर्यावता संस्तरति तावत्प्रमाणः, शय्या वसतिः स्यादृतुक्षमा दातव्या, संस्तारको मृदुकः, क्षेत्रसङ्क्रमे क्षेत्रान्तरं सङ्क्रामयितव्ये तस्योपधिमन्ये वहन्ति, पानीयेन चानुकम्पते जातिस्थविरस्यानुकम्पा । श्रुतस्थविरस्य पूजामाह-किइ इत्यादि, कृति- च्छन्दोऽनुवृत्तिभ्यां स्थविरं श्रुतस्थविरमनुवर्त्तयन्ति । किमुक्तं भवति ? श्रुतस्थविरस्य कृतिकर्म वन्दनकं दातव्यम्, छन्दतश्च तस्यानुवर्त्तनीयम् ||१०|| तथा - 5 [पृ०२२०] उट्ठाणासणदाणाई, जोग्गाहारप्पसंसणा ।
नीअसेज्जाइ निद्देसवत्तिते पूअए सुअं ॥११॥ [ व्यवहारभा० १० | ४६००] व्या० आगतस्योत्थानं कर्त्तव्यम्, आसनप्रदानम्, आदिशब्दात् पादप्रमार्जनादिपरिग्रहः, तथा योग्याहारोपनयनम्, समक्षं परोक्षे च प्रशंसना गुणकीर्त्तना, तथा तत्समक्षं नीचशय्यायामवस्थातव्यम्, निर्देशवर्त्तित्वम्, एवं श्रुतस्थविरं पूजयेत् ॥ ११ ॥
उट्ठाणं वंदणं चेव, गहणं दंडगस्स य ।
अरुण व अ निसे, तईआए पवत्तर || १२ || [ व्यवहारभा० १० |४६०१] व्या० तथा पर्यायस्थविरस्यागुरोरपि अप्रव्राजकस्याप्यवाचनाचार्यस्याप्यागच्छत उत्थानं कुर्वन्ति, वन्दनं च क्षमाश्रमणतः, दण्डकस्य ग्रहणमिति ॥ १२ ॥
[पृ०२२४] नामं १ ठवण २ दविए ३, खेत्तदिसा ४ तावखेत्त ५ पण्णव ६ । 15 सत्तमिआ भावदिसा ७, सा हो अट्ठारसविहा उ ॥ १३॥ [ आव०नि० ८०९ ]
व्या० नाम १ स्थापना २ द्रव्य ३ क्षेत्र ४ ताप ५ प्रज्ञापक ६ भाव७रूपः सप्तधा दिङ्गनिक्षेपो ज्ञातव्यः । भावदिगष्टविधा । तत्र सचित्तादेर्द्रव्यस्य दिगित्यभिधानं नामदिक, चित्रलिखितजम्बूद्वीपादेर्दिग्विभागस्थापनं स्थापनादिक् ||१३|| द्रव्यदिनिक्षेपार्थमाह
तेरसपएसिअं खलु तावइएसुं भवे पएसेसुं ।
जं दव्वं ओगाढं, जहन्नगं तं दसदिसागं || १४ || [आचाराङ्गनि० ४१]
व्या० द्रव्यदिग् द्विधा-आगमतो नोआगमतश्च । आगमतो ज्ञाताऽनुपयुक्तः, नोआगमत ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्वियम् - त्रयोदशप्रदेशिकं द्रव्यमाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रदेशिकमेव दिक् न पुनर्दशप्रदेशिकं यत् कैश्चिदुक्तमिति, प्रदेशाः परमाणवस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्ववगाढं जघन्यद्रव्यमाश्रित्य दशदिग्विभागकल्पनातो द्रव्य - 25
दिगियमिति, तत्स्थापना
त्रिबाहुकं नवप्रदेशिकम् अभिलिख्य चतसृष्वपि दिक्षु
१. 'परियायथेरगस्स करेंति अगुरो वि य ।' इति व्यवहारभाष्ये पाठः ॥
10
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org