________________
१२० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे मध्यमपरिणामवन्त्येव द्रव्याणि भवन्ति, अतस्तद्योगात्तिर्यग् मध्यमो लोकः । वा अथवा भण्यते तिर्यग्विशालो लोकस्तिर्यग्लोकः, मध्यपदलोपी समासः, स्वकीयोर्ध्वाधोभागात्तिर्यग्विशाल एकरज्जुप्रमाणत्वादित्यर्थः ॥५॥ [पृ०२१८] पव्वयणं पव्वजा, पावाओ सुद्धचरणजोगेसुं ।
__ इअ मोक्खं पइ वयणं, कारणकजोवयाराओ ॥६॥ [पञ्चव० ५] व्या० प्रव्रजनं प्रकर्षेण व्रजनं प्रव्रजनम्, कुतः क्व ? इत्यत आह-पापाच्छुद्धचरणयोगेषु, इह पापशब्देन पापहेतवो गृहस्थानुष्ठानविशेषा उच्यन्ते, कारणे कार्योपचारात्, यथा-दधित्रपुषी प्रत्यक्षो ज्वर इति । शुद्धचरणयोगास्तु संयतव्यापारा मुखवस्त्रिकाप्रत्युपेक्षणादय उच्यन्त इति
एवं मोक्षं प्रति व्रजनं प्रव्रज्या, कथम् ? इत्याह-कारणे कार्योपचारात्, कारणे शुद्धचरणयोगलक्षणे 10 मोक्षाख्यकार्योपचारात्, यथा आयुघृतमित्यायुषः कारणत्वात् घृतमेव आयुरित्थं मोक्षकारणत्वाच्छुद्धचरणयोगा एव मोक्ष इति । ततश्च मोक्षं प्रति प्रव्रजनं प्रव्रज्येति गाथार्थः ॥६॥ [पृ०२१९] सेहस्स तिण्णि भूमी, जहन्न तह मज्झिमा य उक्कोसा ।
राइंदिसत्त चउमासिगा य छम्मासिआ चेव ॥७॥ [व्यव० १०।४६०४] व्या० सेहस्सेति शैक्षकस्य तिम्रो भूमयस्तद्यथा-जघन्या तथा मध्यमा उत्कृष्टा च । 15 तत्र जघन्या सप्तरात्रिन्दिवा, मध्यमा चातुर्मासिकी, उत्कृष्टा पाण्मासिकी ॥७।।
पुव्वोवठ्ठपुराणे, करणजयट्ठा जहण्णिआ भूमी । उक्कोसा दुम्मेहं, पडुच्च असद्दहाणं च ॥८॥ [व्यवहारभाष्ये १०।४६०५]
व्या० पूर्वम् उपस्थः उपस्थितः पूर्वोपस्थः, स चासौ पुराणस्तस्मिन् करणजयाय जघन्या भूमिर्भवति । इयमत्र भावना-यः पूर्वं प्रव्रज्योत्प्रव्रजितः, पश्चात् पुनरपि प्रव्रज्यां प्रतिपन्नवान्, 20 स सप्तमे दिवसे उपस्थापयितव्यः, तस्य हि तावद्भिर्दिवसैः पूर्वविस्मृतसामाचारीकरणम् अत्यन्तं दुष्प्रभवति, एषा जघन्या भूमिः, दुर्मेधसमश्रद्दधानं च प्रतीत्योत्कृष्टा पाण्मासिकी भूमिः ॥८॥
एमेव य मज्झिमगा, अणहिजंते असद्दहंते अ। भाविअमेहाविस्स वि, करणजयट्ठा य मज्झिमगा ॥९॥ [व्यवहारभा० १०।४६०६]
व्या० एवमेव उत्कृष्टा अनधीयाने अश्रद्दधाने च माध्यमिका भूमिः प्रतिपत्तव्या । अथवा 25 भावितस्यापि श्रद्दधानस्यापि मेधाविनश्चापि च करणजयार्थं माध्यमिका भूमिः ।।९।। [पृ०२२०] आहारे उवही सिजा, संथारे खेत्तसंकमे ।
किइच्छंदाणुवत्तीहिं, अणुकंपइ थेरगं ॥१०॥ [व्यवहारभा० १०।४५९९] १ तुल्यप्रायं पञ्चवस्तुकवृत्तौ ॥ २. अणुवत्तंति थेरगं इति व्यवहारभाष्ये पाठः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org