________________
त्रिस्थानके द्वितीयोद्देशकटीकागतगाथाविवरणम्
द्रव्याद्यपेक्षया चिन्तनीयः, यथा- द्रव्यतः परमाणुरप्रदेशः, व्यणुकादयस्सप्रदेशाः, क्षेत्रतः एकप्रदेशावगाढोऽप्रदेशः द्व्यादिप्रदेशावगाढाः सप्रदेशा एव, कालतोऽप्येकानेकसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते- इदमेवम्भूतं जीवाजीवव्रातं जानीहि द्रव्यलोकम्, द्रव्यमेव लोक इति कृत्वा, अस्यैव शेषधर्मोपदर्शनायाह- नित्यानित्यं च यद् द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः ॥१॥
साम्प्रतं भावलोकमुपदर्शयतिपृ०२१४] उदइअ ओवसमिए अ, खइए अ तहा खओवसमिए अ ।
परिणामसन्निवाए अ, छव्विहो भावलोगो अ ॥२॥ [आव० मूलभा० २००] व्या० उदयेन निर्वृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यम्, ततश्च क्षायिकः क्षायोपशमिकश्च 10 पारिणामिकस्सान्निपातिकश्च, एवं षड्विधो भावलोकस्तु ॥२॥ [पृ०२१५] अहव अहोपरिणामो, खेत्तऽणुभावेण जेण उस्सन्नं ।
असुहो अहो त्ति भणिओ, दव्वाणं तेणऽहोलोगो ॥३॥ व्या० अथवाऽधःशब्दोऽशुभपर्यायः, तत्र च क्षेत्रानुभावात् उस्सन्नमिति बाहुल्येन अशुभ एव परिणामो द्रव्याणां जायते येन कारणेन, अतोऽशुभपरिणामवद्रव्ययोगादशुभो लोकः 15 अधोलोको भणितस्तेन कारणेन, ऊर्ध्वलोकापेक्षया अधोलोकवर्तिनां शुभानामपि द्रव्याणां हीनतरत्वादित्यर्थः ।
उड़े उवरिं जं ठिअ, सुहखेत्तं खेत्तओ अ दव्वगुणा । उप्पजति सुभा वा, तेण तओ उड्ढलोको त्ति ॥४॥
व्या० ऊर्ध्वम् उपरि यः स्थितो लोक ऊर्ध्वलोकः, अथ ऊर्ध्वशब्दः शुभपर्यायः, तेन 20 ऊर्ध्वं शुभं क्षेत्रम् ऊर्ध्वक्षेत्रम्, येन क्षेत्रतः पदैकदेशे पदसमुदायोपचारात् क्षेत्रानुभावादेव क्षेत्रस्य शुभत्वात्तदनुभावद्रव्याणां गुणाः शुभा एव परिणामा उत्पद्यन्ते, तेन कारणेन ततो हेतोः ऊर्ध्वलोक इति ॥४॥
मज्झऽणुभावं खेत्तं, जं तं तिरिअं ति वयणपज्जवओ । भण्णइ तिरिअ विसालं, अओ व तं तिरिअलोगो त्ति ॥५॥
व्या० चतुर्थपदवर्ती वाशब्दोऽत्र सम्बध्यते, वा अथवा तिर्यक्शब्दोऽत्र मध्यमपर्यायः, तेन मध्यमानुभावं क्षेत्रं यत्तत्तिर्यगिति । कुत इदमायातम् ? तत्राह- वयणपज्जवओ त्ति मध्यमानुभाववचनस्य तिर्यग्ध्वनेः पर्यायतामाश्रित्येत्यर्थः । अतो मध्यमक्षेत्रानुभावात् प्रायो
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org