________________
वाचकसुमतिकल्लोल- वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
प्रतिपत्तव्यम् । अवशेषेषु तु समुद्रेषु प्रायो न भवन्ति मत्स्या वा मकरा वा, वाशब्दादन्येऽपि
कच्छपादयः ॥५९॥
प्राय इति कथं लब्धम् ? इति चेदुच्यते, यत आह
नत्थि त्ति परभावं, पडुच्च न उ सव्वमच्छपडिसेहो ।
अप्पा सेसेसु भवे, न य ते निम्मच्छया भणिआ ||६० || [ बृहत्सं० ९९ ] व्या० इह 'नत्थि उ मयरा व मच्छा वा' इति यत् प्राङ्नास्तित्वं मत्स्यानामुक्तं तत् प्रचुरभावं प्राचुर्यं प्रतीत्य वेदितव्यम्, यथा- प्राचुर्येणावशेषेषु समुद्रेषु मत्स्यादयो न भवन्तीति, न तु सर्वथा, तत्र मत्स्यानामुपलक्षणम् एतत् तेन मकरादीनां च प्रतिषेधः, यतोऽल्पाः शेषेषु मत्स्यादयो नियमतः सम्भवन्ति, न खलु ते निर्मत्स्याः सर्वथा जलचरजीवरहिता भणिता10 स्तीर्थकरगणधरैः । तथा चात्रार्थे संस्कृतक्षेत्रसमाससूत्रं संवादि लवणः कालोद - स्वयम्भूरमणा बहुमत्स्यकच्छपा नेतरे [ ] इति ॥ ६०||
5
15
११८
20
[पृ०२१३] सोहम्मि पंचवण्णा, इक्कगहाणी अ जा सहस्सारो ।
दो दो तुल्ला कप्पा, तेणं परं पुंडरीआ य ॥६९॥ [बृहत्सं० १३२] व्या० गाथेयं प्राग् व्याख्याता द्विस्थानकस्य तृतीयोद्देशकगाथाविवरणप्रान्ते । [इति त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणं समाप्तम् ।]
[ अथ त्रिस्थानके द्वितीयोद्देशकटीकागतगाथाविवरणम् ] [पृ०२१४] जीवमजीवे रूवमरूवी सपएसअप्प से अ ।
जाणाहि दव्वलोगं, णिच्चमणिच्चं च जं दव्वं ॥१॥ [ आव० भा० १९५ ] व्या० जीवमित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः चः । एतौ च द्विभेदौ- रूप्यरूपिभेदात्, आह च-- रूप्यरूपिणाविति । तत्रानादिकर्मसन्तानपरिगता रूपिणः संसारिणः, अरूपिणस्तु कर्मरहितास्सिद्धा इति । अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः, रूपिणस्तु परमाण्वादय इति । एतौ च जीवाजीवावोघतः सप्रदेशाववगन्तव्यौ, तथा चाह - सप्रदेशाविति । तत्र सामान्यविशेषरूपत्वात् 25 परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयम्, परमाणवस्त्वप्रदेशा एव । अन्ये तु व्याचक्षते - जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन सप्रदेशो वाऽप्रदेशो वेति । एवं धर्मास्तिकायादिष्वपि त्रिष्वपि कायेषु परापरनिमितं पक्षद्वयं वाच्यम् । पुद्गलास्तिकायस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org