SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ११७ त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् व्या० या प्रथमायां रत्नप्रभायां ज्येष्ठा उत्कृष्टा स्थितिरेकसागरोपमलक्षणा सा द्वितीयायां पृथिव्यां शर्कराप्रभाभिधानायां कनिष्ठा जघन्या भणिता । एष तरतमयोगो जघन्यतोत्कृष्टस्थितियोगः सर्वास्वपि पृथिवीषु भावनीयः, तद्यथा-या द्वितीयायामुत्कृष्टा सा तृतीयायां जघन्या, या तृतीयायामुत्कृष्टा सा चतुर्थ्यां जघन्या, चतुर्थ्यां या उत्कृष्टा सा पञ्चम्यां जघन्या, पञ्चम्यां या उत्कृष्टा सा षष्ठयां जघन्या, या षष्ठ्यामुत्कृष्टा सा सप्तम्यां जघन्या । रत्नप्रभायां जघन्या 5 स्थितिर्दश वर्षसहस्राणि, शर्कराप्रभायाम् एकं सागरोपमम्, वालुकाप्रभायां त्रीणि सागरोपमाणि, पङ्कप्रभायां सप्त, धूमप्रभायां दश, तमःप्रभायां सप्तदश, तमस्तमःप्रभायां कालादिषु चतुर्यु नरकावासेषु द्वाविंशतिस्सागरोपमाणि जघन्या स्थितिः । जघन्योत्कृष्टान्तरालवर्तिनी तु सर्वत्र मध्यमा बोद्धव्या ॥५६॥ [पृ०२११] पढमाऽसीइसहस्सा, बत्तीसा अट्ठवीस वीसा य । 10 ___ अट्ठार सोलसऽट्ट य, सहस्स लक्खोवरिं कुज्जा ॥५७॥ [बृहत्सं० २४१] व्या० प्राकृतत्वात् सप्तम्यर्थे प्रथमा, प्रथमाद्यास्तत्रार्थे, प्रथमादीनां सप्तानामपि पिण्ड इति शेषः, प्रमाणाङ्गुलेनैकलक्षोपरि यथाक्रमम् अशीतिः१ द्वात्रिंशद्र अष्टाविंशतिः३ विंशति४ रष्टादश ५ षोडश ६ अष्टौ ७ च योजनसहस्रा: । भावना चेयम्-प्रथमाया नरकपृथिव्याः पिण्डस्थूलत्वम् एकं लक्षं योजनानामशीतिस्सहस्राणि च, एवं द्वितीयायाः पिण्ड एकं लक्षं 15 द्वात्रिंशत्सहस्राणि, तृतीयायाः पिण्ड एकं लक्षमष्टाविंशतिस्सहस्राणि, चतुर्थ्याः पिण्ड एकं लक्षं विंशतिस्सहस्राणि, पञ्चम्याः पिण्ड एकं लक्षमष्टादश सहस्राणि, षष्ठ्याः पिण्ड एकं लक्षं षोडश सहस्राणि, सप्तम्याः पिण्ड एकं लक्षमष्ट सहस्राणीत्यर्थः ॥५७।। समुद्रेषु मत्स्यादिसम्भावनामाह[पृ०२१२] लवणे उदगरसेसु अ, महोरगा मच्छ-कच्छहा भणिआ । अप्पा सेसेसु भवे, न य ते निम्मच्छया भणिआ ॥५८॥ [बृहत्सं० ७७] 20 व्या० लवणे लवणसमुद्रे उदकरसेषु च कालोद-पुष्करोद-स्वयम्भूरमणेषु महोरगा मत्स्यकच्छपा भणिताः । अल्पाः शेषेषु भवेयुः, न च ते निर्मत्स्यका भणिताः ॥५८॥ एतदेवाहलवणे कालसमुद्दे, सयंभुरमणे अ हुंति मच्छा उ । अवसेससमुद्देसुं, न हुंति मच्छा व मयरा वा ॥५९॥ [बृहत्सं० ९०] व्या० लवणे लवणोदकसमुद्रे कालोदकसमुद्रे स्वयम्भूरमणसमुद्रे च प्राचुर्येण मत्स्या भवन्ति । उपलक्षणमेतत्तेन शेषा अपि मकरादयो जलचरजीवविशेषास्तत्र भूयांसो भवन्तीति 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy