SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ११६ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे स चैवम्भूतः कः ? इत्याह- आचार्यः । स च कथं भाति भ्राजते वा ? इत्याह ज्ञानतपोगुणदीप्त्येति ॥५२॥ अथवा भ्रान्तो भगवान्वाऽसाविति दर्शयन्नाह अहवा भंतोऽपेओ जं मिच्छत्ताइबंधहेऊओ। 5 अहवेसरिआइ भगो, विजइ से तेण भगवंतो ॥५३॥ [विशेषाव० ३४४८] व्या० अथवा भ्रम अनवस्थाने इत्यस्य धातोर्भ्रान्त इत्युच्यते, यस्मादपेतोऽसौ मिथ्यात्वादिबन्धहेतुभ्य इति । अथवा ऐश्वर्यादिकः षड्विधो भगो विद्यते से तस्य, तेन भगवान् गुरुरिति ॥५३॥ अथवा भवान्तो भयान्तो वाऽयमित्यादि दर्शयन्नाहनेरइआइभवस्स व, अंतो जं तेण सो भवंतो त्ति । अहवा भयस्स अंतो, होइ भयंतो भयं तासो ॥५४॥ [विशेषाव० ३४४९] व्या० अथवा यस्मान्नारकादिभवस्यान्तहेतुत्वादन्तोऽसौ, तेन भवान्त इति । अथवा भयस्यान्तो भयान्तो भवति, भयं च त्रास उच्यत इति ॥५४॥ [पृ०२०९] धान्यप्रासुकाधिकारे गाथार्धम्अकुड्डो होइ मंचो, मालो अ घरोवरिं होइ । [ व्या० मञ्चः स्थूणानामुपरि स्थापितो वंशकटकादिमयो जनप्रतीतः । कथम्भूतो मञ्चः ? अकुड्यः, नास्ति कुड्यम् आधारो यस्य सोऽकुड्यः । मालश्च गृहस्योपरितनभागो यत्र धान्यं स्थाप्यते ॥ [पृ०२१०] सागरमेगं तिअ सत्त, दस य सत्तरस तह य बावीसा । तेत्तीसं जाव ठिई, सत्तसु पुढवीसु उक्कोसा ॥५५॥ [बृहत्सं० २३३, प्रवचनसारो० १०७५] व्या० सप्तस्वपि नरकपृथ्वीष्वियं यथासङ्ख्यमुत्कृष्टा स्थितिरिति । रत्नप्रभायां पृथिव्यां सागरोपममेकमुत्कृष्टा स्थितिः, शर्कराप्रभायां त्रीणि सागरोपमाणि, वालुकाप्रभायां सप्त, पङ्कप्रभायां दश, धूमप्रभायां सप्तदश, तमःप्रभायां द्वाविंशतिः, तमस्तमःप्रभायां त्रयस्त्रिंशत् सागरोपमाण्युत्कृष्टा 25 स्थितिरिति ॥५५॥ सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाह जा पढमाए जेट्ठा, सा बिइआए कट्ठिया भणिआ । तरतमजोगो एसो, दस वाससहस्स रयणाए ॥५६॥ [बृहत्सं० २३४] 15 20 १. भ्रम अनवस्थाने - पा०धा० १२०५ ।। २. तुलना-प्रवचनसारोद्धारवृत्तिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy