SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् ११५ आलापकोऽर्थतो व्याख्यायते, येन सङ्गतार्था भवतीति । एएसि णमित्यादि, एतेषामेकास्थिकानां मूलान्यप्यसङ्ख्येयजीवकानि असङ्ख्येयप्रत्येकशरीरजीवात्मकानि, एवं कन्दा अपि स्कन्धा अपि त्वचोऽपि शाखा अपि प्रवाला अपि प्रत्येकमसङ्ख्येयप्रत्येकशरीरजीवकाः । तत्र मूलानि यानि कन्दस्याधस्ताद्भूमेरन्तः प्रसरन्ति, तेषामुपरि कन्दास्ते च लोकप्रतीताः, स्कन्धाः स्थुडाः, त्वचश्छल्लयः, शाला: शाखाः, प्रवाला: पल्लवाङ्कुराः। पत्ता पत्तेअजीविअ त्ति 5 पत्राणि प्रत्येकजीविकानि, एकैकं पत्रमेकैकेन जीवेनाधिष्ठितमिति भावः । पुष्पाण्यनेकजीवानि, प्राय: प्रतिपुष्पपत्रं जीवभावात् । फलान्येकास्थिकानि । गाथात्रयं दिदृक्षुणा प्रथमं पदं विलोक्यम् ॥४९॥ [पृ०२०८] भदि कल्लाणसुहत्थो, धाऊ तस्स य भदंतसद्दोऽयं । ___स भदंतो कल्लाणं, सुहो अ कल्लं किलारोग्गं ॥५०॥ [विशेषाव० ३४३९] 10 व्या० भदि कल्याणे सुखे [पा०धा०१२] इति भदिधातुः कल्याणार्थः सुखार्थश्च, तस्य च भदिधातोर्भदन्त इत्यौणादिकप्रत्यये भदन्तशब्दोऽयं निष्पद्यते, ततः स्थितम्-स भदन्त: कल्याण: सुखश्च । तत्र कल्याणशब्दव्युत्पादनार्थमाह- कल्यं किलारोग्यमुच्यत इति ॥५०॥ अथवा भंते त्ति नेदं भदन्त इत्यामन्त्रणं किन्तु भजन्त इति, कया व्युत्पत्त्या ? इत्याह[पृ०२०९] अहवा भय सेवाए, तस्स भयंतो त्ति सेवए जम्हा । 15 सिवगइणो सिवमग्गं, सेव्वो अ जो तदत्थीणं ॥५१॥ [विशेषाव० ३४४६] व्या० अथवा भजश्रिञ् सेवायाम् [का०धा० १६०४] ति भजधातुस्तस्य भजते सेवते इति भजन्तस्तस्य सम्बोधनं हे भजन्त गुरो ! स चेह कस्माद् ? उच्यते- यस्मात् सेवते, कान् ? शिवगतीन् सिद्धिगति प्राप्तान्, अथवा दर्शन-ज्ञान-चारित्रलक्षणं शिवमार्ग मोक्षमार्ग वा अथवा सेव्यश्च यस्मादसौ तदर्थिनां मोक्षमार्गार्थिनां तस्माद्भज्यते सेव्यते इति भजन्त 20 इत्युच्यते इति ॥५१॥ अथवा भान्तो भ्राजन्तो वा गुरुरुच्यते इति, कथम् ? इत्याहअहवा भा भाजो वा, दित्तीए होड़ तस्स भंतो त्ति । भाजतो चाऽऽयरिओ, सो नाणतवोगुणजुईए ॥५२॥ [विशेषाव० ३४४७] व्या० भा धातुर्धाजधातुर्वा दित्तीए दीप्तौ पठ्यते तस्य भान्त भ्राजन्त इति वा भवति। 25 १. एएसि णं मूला वि असंखेजजीविआ कंदा वि खंधा वि तया वि साला वि पवाला वि पत्ता पत्तेयजीविया पुप्फा अणेगजीविया फला एगट्ठिया सेत्तं एगट्ठिया इति प्रज्ञापनासूत्रे प्रथमे पदे । २. भज सेवायाम - पा०धा० ९५८ ॥ ३. भा दीप्तौ- पा०धा० १०५९, भ्राज़ दीप्तौ- पा०धा० १८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy