SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् व्या० यो येन धर्मोपदेशप्रदानादिना दर्शने चारित्रे वा स्थापितः, स तं गुरुं दर्शनचारित्राभ्यां च्यवन्तं तयोरेव दर्शन-चारित्रयोः स्थापयित्वा निर्गतं ऋणं यस्मात् स निर्ऋणो भवति, कृतप्रत्युपकार इत्यर्थः ।।४२।। [पृ०२०५] योनिस्वभावं प्राणिनामाहसीओसिणजोणीआ, सव्वे देवा य गब्भवक्वंता । उसिणा य तेउकाए, दुह निरए तिविह सेसाणं ॥४३॥ [जीवसमास०४७,बृहत्सं०३६०] व्या० सर्वे सुराः, च पुनः सर्वे गर्भव्युत्क्रान्ता गर्भजतिर्यङ्नराः शीतोष्णयोनिकाः उभयस्वभावाः, उष्णा च योनिस्तेजस्काये, जातावेकवचनम्, नरए नरके द्विधा शीता उष्णा च, तत्राद्यासूष्णवेदनासु तिसृषु पृथ्वीषु शीता, चतुर्थ्यां बहूपरितनेषूष्णवेदनेषु नरकावासेषु शीता, अधः स्तोकेषु शीतवेदनेषु उष्णा, पञ्चम्यां बहुषु शीतवेदनेषूष्णा स्तोकेषूष्णवेदनेषु शीता, षष्ठी- 10 सप्तम्योश्च शीतवेदनयो रकाणां योनिरुष्णैव । शीतयोनिकानां हि उष्णवेदनाऽत्यन्तं दुस्सहा उष्णयोनिकानां तु शीतवेदनेति । तिविहेति शेषाणां पृथिव्यम्बु-वायु-वनस्पति-सम्मूर्छिमतिर्यङ्नराणां त्रिविधा केषाञ्चिच्छीता केषाञ्चिदुष्णा केषाञ्चिन्मिश्रेति ॥४३॥ सच्चित्ताचित्तयोनिभेदमाह[पृ०२०५] अच्चिता खलु जोणी, नेरइआणं तहेव देवाणं । मीसा य गब्भवसही, तिविहा जोणी तु सेसाणं ॥४४॥ [बृहत्सं० ३५९] व्या० खलुनिश्चयार्थे, नैरयिकाणां तथा देवानां निश्चयेन अचित्ता योनिः सर्वथा जीवप्रदेशविप्रमुक्ता, यद्यपि च सूक्ष्मैकेन्द्रियास्सकललोकव्यापिनस्तथापि तत्प्रदेशैरुपपातस्थानपुद्गला अन्योन्यानुगमेन सम्बद्धा इत्यचित्तैव तेषां योनिः । मीसा य गन्भवसहीति प्राकृतत्वात् षष्ठीबहुवचनलोपः, गर्भवसतीनां गर्भजतिर्यङ्नराणां योनिर्मिश्रा सचित्ताचित्तरूपा, तथाहि-ये 20 शुक्रमिश्राः शोणितपुद्गला योन्याऽऽत्मसात्कृतास्ते सचित्ताः शेषाणां देवनारकगर्भजतिर्यङ्नरव्यतिरिक्तानाम् एक-द्वि-त्रि-चतुरिन्द्रिय-सम्मूर्छिमतिर्यङ्नराणां योनिस्त्रिभेदा- सचित्ताऽचित्ता मिश्रा च, तत्र जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता, अचित्ते काष्ठे घुणादीनाम् अचित्ता, सचित्ताचित्ते काष्ठ-गोक्षतादौ घुण-कृम्यादीनामेव मिश्रेति ॥४४॥ [पृ०२०६] एगिंदिअनेरइआणं, संवुडजोणी हवंति देवा य । विगलिंदिआण विअडा, संवुडविअडा य गब्भम्मि ॥४५॥ [बृहत्सं० ३५८] व्या० एकेन्द्रियनैरयिकाणाम्, एकेन्द्रिया नैरयिकाश्च, तेषां संवृता योनिः, तथाहिएकेन्द्रियाणां संवृता योनिः, स्पष्टमनुपलक्ष्यमाणत्वात्, नारकाणां पृथ्वीसप्तकवर्त्तिनां तु संवृता 15 ___25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy