SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ११२ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे ___ व्या० गाथाद्वयं वृत्तिकृतैव व्याख्यातम्, नवरं सूपो दालिः, ओदन: कूरः, यवान्नं यवनिष्पन्नं परमान्नम्, गोरसो दुग्ध-दधि-घृतप्रभृतिकः । जलचर-स्थलचर-खचरसम्बन्धीनि त्रीणि मांसानि, तत्र जलचरा मत्स्यादयः, स्थलचरा हरिणादयः, खचरा लावकादयः । जूषो जीरक-कटुभाण्डादिभिर्युतस्सुसम्भृतो मुद्गरसः । तथा भक्ष्याणि खण्डखाद्यकप्रमुखाणि, खाद्यक 5 खज्जकम्, तच्च खण्डेन खरण्टितम्, तत्प्रमुखाणि, तथा गुललावणिका गुडपर्पटिका, पूर्वदेशीयप्रधानगुडकृता या पर्पटिकेत्यर्थः, अथवा गुडमिश्रा धाना गुडधाना भणिता गुडलावणिकेति। मूलफलानि एकम् एव पदं ग्राह्यम्, तत्र मूलानि अश्वगन्धादीनाम्, फलानि सहकारादीनाम्, हरितकमिह जीरकादिपत्रनिर्मितम्, डाको वस्तुलराजिकादीनां भर्जिका हिङ्गु जीरकादिभिर्युता सुसंस्कृता । रसालुर्मर्जिका, तल्लक्षणमिदम्10 दो घयपला महुपलं, दहिस्स अद्धाढयं मिरिय वीसा । दस खंडगुलपलाइं, एस रसालू निवइजोग्गा ॥३९॥ [प्रवचनसारो० १४१६] व्या० द्वे घृतपले एकं मधुपलं दध्नोऽर्द्धाढकं मरीचानि विंशतिः दश खण्डगुडपलानि, एषा रसालू पतियोग्या इति ॥३९॥ निरुपहतो निर्दोषो लौकिको निर्विवेकिलोकप्रतीतः पिण्ड आहारः ॥३७-३८॥ 15 [पृ०२०१] सज्जनप्रकारमाहकओवयारो जो होइ, सज्जणो होउ को गुणो तस्स । उवयारबाहिरा जे, हवंति ते सुंदरा सुअणा ॥४०॥ व्या० कृत उपकारो यस्य स कृतोपकारः पुरुषो यो भवति सज्जनः स भवतु सज्जनः, तस्य सज्जनतायां को गुणः?, न कोऽपीत्यर्थः । उपकारबाहिरा उपकाररहिता ये, येषूपकारः 20 कोऽपि कृतो नास्ति, ते सुजनाः सुन्दराः, निरुपकारसौजन्यगुणयुतत्वादिति गाथार्थः ॥४०।। सम्यक्त्वदायकं दुष्प्रतीकारमाहसम्मत्तदायगाणं, दुप्पडिआरं भवेसु बहुएसुं । सव्वगुणमेलिआहि वि, उवगारसहस्सकोडीहिं ॥४१॥ [उपदेशमाला० २६९] व्या० सम्यक्त्वदायकानां विशिष्टदेशनया सम्यग्भावसम्पादकानां दुष्प्रतीकारं प्रतिकर्तुमशक्यं 25 भवेषु वर्तमानाभिः सर्वगुणमीलिताभिरपि द्विगुणादिभिर्यावदनन्तगुणाभिरपीत्यर्थः, उपकारसहस्रकोटीभिर्न कथञ्चित्ते प्रत्युपका पार्यन्त इत्याकूतमिति ॥४१॥ पृ०२०२] जो जेण जम्मि ठाणम्मि ठाविओ दंसणे व चरणे वा । सो तं तओ चुअं तम्मि चेव काउं भवे निरीणो ॥४२॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy