SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् [पृ०१८७] देवायुर्बन्धनकारणमाह महव्वय - अणुव्वएहि अ बालतवोऽकामनिज्जराए अ । देवाउअं निबंध, सम्मद्दिट्ठी अ जो जीवो ||२६|| व्या० महाव्रताणुव्रतैः, महान्ति व्रतानि पञ्च, अणुव्रतानि द्वादश । बालतपोऽकामनिर्जराभिः, बालतपांसि अज्ञानितपस्याः, अकामेन अनिच्छया निर्जरणं क्षुधा तृषादिभिः, देवायुर्निबध्नाति सम्यग्दृष्टिश्च यो जीवः । एतावता एतैः कारणैर्देवायुर्बन्ध : शुभो दीर्घश्च भवति ॥ २६॥ दीर्घमनुष्यायुर्बन्धनकारणमाह पयइए तणुकसाओ, दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहि जुत्तो, मणुआउं बंधए जीवो ॥२७॥ १०९ व्या० प्रकृत्या तनुकषायः स्वाभावेनैव स्तोककषायः दानरतः सर्वदा दानदायकः, पुनः शीलसंयमविहीनः यम-नियमाभ्यां रहितः, मध्यमगुणैश्च युक्तः, मध्यमाः अनुत्कृष्टा अनपकृष्टा गुणास्तैर्युक्तः । उत्कृष्टगुणस्तु देवो भवति, अपकृष्टगुणस्तिर्यग् भवति । एतादृशो जीव मनुष्यायुर्बध्नाति ||२७|| Jain Education International समिओ नियमा गुत्तो, गुत्तो समिअत्तणम्मि भइयो । कुसलवयमुईरंतो, जं वयसमिओ वि गुत्तो वि ॥३०॥ निशीथभा० ३७, उपदेशपद० ६०५ ] [पृ०१८८] नरकायुष्कारणमाह मिच्छादिट्ठी महारंभ - परिग्गहो तिव्वलोभनिस्सीलो । नरयाउअं निबंधड़, पावमई रुद्दपरिणामो ||२८|| व्या० मिथ्यादृष्टि: महारम्भपरिग्रहः, महानारम्भो महान् परिग्रहो यस्य, महारम्भस्तु अभ्रकद्रावणादिः, महापरिग्रहोऽपरिमितपरिग्रहः, तीव्रलोभो निःशीलः, एतादृशो जीवो नरकायुर्निबध्नाति पापमतिः रौद्रपरिणामः ॥ २८ ॥ [पृ०१८९] मणगुत्तिमाइआओ, गुत्तीओ तिण्णि समयकेऊहिं । पविआरेअररूवा, निद्दिट्ठाओ जओ भणिअं ॥ २९ ॥ व्या० मनोगुप्त्यादयः, मकारोऽलाक्षणिकः, गुप्तयस्तिस्रः समयकेतुभिः सिद्धान्तवेदिभिः प्रवीचारेतररूपाः प्रवीचाराप्रवीचारोभयरूपाः निर्दिष्टाः । प्रवीचारो नाम कायिको वाचिको वा व्यापारः, तद्वर्जितोऽप्रवीचारः । इह समितय: प्रवीचाररूपा उभयरूपास्तु गुप्तय इत्यर्थः 25 ॥२९॥ तदेवाह For Private & Personal Use Only 5 10 15 20 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy