________________
११० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे ___ व्या० समित: समितियुक्तो नियमाद् गुप्तः, गुप्तस्तु समितत्वे नियमाद्भाज्यः, यथा कुशलां निर्वद्यगुणोपेतां वाचं वाणीमुदीरयन् समितो गुप्तोऽपि च स्यात्, गुप्तेः प्रवीचाररूपतयाऽप्यभिधानात्, अतस्समितो नियमाद् गुप्तः गुप्तस्तु समितत्वे नियमाद्भाज्यः । यो हि
कायवाचौ निरुद्ध्य शुभं मन उदीरयन्नेकाग्रमना: धर्मे स्यात् स गुप्तः स्यान्न समित: समितियुक्तो 5 न स्यात्, समितेः प्रवीचाररूपत्वात् । यस्तु कायवाचौ सम्यक् प्रयुङ्क्ते सम्यग्व्यापारवती कुर्यात् स गुप्तोऽपि समितोऽपि, गुप्तेरुभयरूपत्वादित्यर्थः ॥३०॥ [पृ०१९१] आगमतोऽणुवउत्तो, ईअरो दव्वपुरिसो तिहा तइओ ।
एगभविआइ तिविहो, मूलुत्तरनिम्मिओ वा वि ॥३१॥[विशेषाव० २०९१] व्या० इह नामस्थापनापुरुषौ नोक्तौ, तद्विचारस्यातिप्रतीतत्वात् । द्रव्यपुरुषस्तु द्विधा10 आगमतो नोआगमतश्च । तत्रागमतः पुरुषपदार्थज्ञस्तत्र चानुपयुक्तो द्रव्यपुरुष उच्यते, इतरस्तु नोआगमत इत्यर्थः, द्रव्यपुरुषो ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात् त्रेधा । तत्र ज्ञशरीरभव्यद्रव्यपुरुषौ द्रव्यावश्यकादिवत् सुचर्ची, तृतीयस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यपुरुषः, पुनरप्येकभविक-बद्धायुष्का-ऽभिमुखनामगोत्रभेदात् त्रेधा । अथवा व्यतिरिक्तो द्विविधः- कथम् ?
मूलगुणनिर्मित उत्तरगुणनिर्मितश्च । तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तर15 गुणनिर्मितस्तु तान्येव तदाकारवन्तीति ॥३१॥
[पृ०१९२] उक्तो द्रव्यपुरुषः, इदानीमभिलाप-चिह्नपुरुषौ प्राहअभिलावो पुंलिंगाभिहाणमेत्तं घडोव्व चिंधे उ । पुरिसागिई नपुंसो, वेओ वा पुरिसवेसो वा ॥३२॥ [विशेषाव० २०९२]
व्या० अभिलापः शब्दस्तद्रूपः पुरुषोऽभिलापपुरुषः, यथा पुरुषः इति पुंलिङ्गवृत्त्य20 भिधानमात्रं घटः पट इत्यादि । चिह्ने चिह्नविषये पुरुषश्चिह्नपुरुषः, पुरुषाकृति: नपुंसकात्मा श्मश्रुप्रमुखपुरुषचिह्नयुक्तः, अथवा वेदः पुरुषवेदः चिह्नपुरुष: चियते लक्ष्यते पुरुषोऽनेनेति कृत्वा, अथवा पुरुषस्य सम्बन्धी वेषो यस्य स पुरुषवेष: स्त्र्यादिरपि चिह्नमात्रेण पुरुषः चिह्नपुरुष इति ॥३२॥ वेद-धर्मपुरुषौ प्राह
वेअपुरिसो तिलिंगो, वि, पुरिसवेआणुभूइकालम्मि । ___ धम्मपुरिसो तयजणवावारपरो जहा साहू ॥३३॥ [विशेषाव० २०९३]
व्या० स्त्रीपुंन्नपुंसकलिङ्गत्रयवृत्तिरपि प्राणी यदा तृणज्वालोपमविपाकं पुरुषवेदमनुभवति तदा पुरुषवेदानुभवमाश्रित्य पुरुषो वेदपुरुषः स्त्र्यादिरप्युच्यते । धर्मार्जनव्यापारपरो धर्मपुरुषः, यथा साधुरिति ॥३३॥ अर्थ-भोगपुरुषौ प्राह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org