________________
१०८ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे निवर्तनफलत्वं भवद्भिरपि येनावबुध्यते तथैव प्रतिप(पा?)द्यत इति गाथार्थः ॥२२॥ [पृ०१८६] संविग्गभाविआणं, लोद्धयदिटुंतभाविआणं च ।
मुत्तूण खित्तकाले, भावं च कहिंति सुद्धंछं ॥२३॥ संथरणम्मि असुद्धं, दोण्ह वि गिण्हंत-दितयाणऽहिअं । आउरदिटुंतेणं, तं चेव हिअं असंथरणे ॥२४॥
बृहत्कल्पभा० १६०७,१६०८ निशीथभा० १६४९] व्या० येषां श्राद्धानां पुरत एषणादोषाः कथ्यन्ते ते द्विविधाः-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च । संविग्नरुद्यतविहारिभिर्भाविता: संविग्नभाविताः, ये तु पार्श्वस्थादिभि
लुब्धकदृष्टान्तेन भावितास्ते लुब्धकदृष्टान्तभाविताः । कथम् ? इति चेदुच्यते-ते पार्श्वस्था: 10 श्राद्धानित्थं प्रज्ञापयन्ति-यथा कस्यापि हरिणस्य पृष्ठतो लुब्धको धावति, तस्य च हरिणस्य
पलायनं श्रेयः, लुब्धकस्यापि तत्पृष्ठतोऽनुधावनं श्रेयः । एवं साधोरप्यनेषणीयग्रहणतः पलायितुमेव युज्यते, श्रावकस्यापि तेन तेनोपायेन साधोरनेषणीयमेषणीयं वा दातुमेव युज्यत इति । इत्थं द्विविधानामपि श्राद्धानां पुरतः शुद्धं द्विचत्वारिंशद्दोषरहितं यदुञ्छमिवोञ्छं स्तोक-स्तोकग्रहणात्,
शुद्धोञ्छं उत्सर्गपदमित्यर्थः । तत् कथयन्ति । किं सर्वदैव ? नेत्याह- मुक्त्वा क्षेत्रकालौ 15 भावं चेति । क्षेत्रं कर्कशक्षेत्रम् अध्वानं वा कालं दुर्भिक्षादिकं भावं ग्लानत्वादिकं प्रतीत्य ते श्राद्धाः किञ्चिदपवादपदमपि ग्राह्यन्ते ।
अपि च, इदमपि ते श्राद्धा ज्ञापनीयाः । संथरेति संस्तरणं नाम प्रासुकमेषणीयं चाशनादि पर्याप्तं प्राप्यते न च किमपि ग्लानत्वं विद्यते, तत्राशुद्धम् अप्रासुकम् अनेषणीयं च गृह्णतो
ददतश्च द्वयोरपि अहितम् अपथ्यम्, गृह्णतस्संयमबाधाविधायित्वाद्ददतश्च भवान्तरे स्वल्पायु20 र्निबन्धनकर्मोपार्जनात् । तदेवाशुद्धम् असंस्तरणे अनिर्वाहे दीयमानं गृह्यमाणं च हितं पथ्यं
भवति । आह- कथं तदेवाकल्प्यं तदेव च कल्प्यं भवितुमर्हति ? इत्युच्यते- आतुरो रोगी, तस्य दृष्टान्तेनेदं मन्तव्यम् । यथा हि रोगिणः कामप्यवस्थामाश्रित्यौषधादिकम् अपथ्यं भवति काञ्चित् पुनः समाश्रित्य तदेव पथ्यमेवमिहापि भावनीयम् ॥२४॥ [पृ०१८६] णायागयाणं कप्पणिज्जाणं असणपाणमाईणं ।
दव्वाणं देस-काल-सद्धा-सक्कार-कमजुत्तं ॥२५॥ आव० प्रत्या० । व्या० न्यायागतानां न्यायोपार्जितद्रव्यागतानां कल्पनीयानामशन-पानादीनां द्रव्याणां दानमिति शेषः । कथम्भूतं दानम् ? देश-काल-श्रद्धा-सत्कार-क्रमयुक्तं देयमिति भावः ॥२५॥ १. वस्तुतो नेयं गाथा, किन्तु आवश्यकसूत्रस्य प्रत्याख्यानाध्ययने अतिथिसंविभागव्रतनिरूपणे सूत्रमिदम् ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org