SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् दंतवणं तंबोलं, चित्तं तुलसी कुहेडगाईअं । महुपिप्पलिसुंठाई, अणेगहा साइमं होइ ॥ २०॥ [पञ्चाशक० ४।३०, प्रवचनसारो० २१०] व्या० दन्ताः पूयन्ते पवित्रीक्रियन्ते येन काष्ठखण्डेन तद्दन्तपवनम्, ताम्बूलं नागवल्लीपत्रपूगफलादिरूपम्, चित्रम् अनेकविधं तुलसी - कुहेडकादि, तुलसी पत्रिकाविशेषः, कुहेडकः 5 पिण्डार्यकः, आदिशब्दाज्जीरक- हरितादिपरिग्रहोऽनेकधा स्वादिमं ज्ञेयम् ||२०|| [पृ०१८६] भण्णइ जिणपूआए, कायवहो जइ वि होइ उ कहिंचि । तहवि तई परिसुद्धा, गिहीण कूवाहरणजोगा ॥ २१ ॥ असयारंभपवत्ता, जं च गिही तेण तेसिं विन्नेया । १०७ तन्निव्वित्तिफलच्चिअ, एसा परिभावणीयमिदं ॥ २२ ॥ पञ्चाशक० ४।४२,४३] 10 व्या० भण्यते ऽभिधीयते, समाधिरिति गम्यम्, जिनपूजायां कायवधो जीवनिकायहिंसा, यद्यपीति परवचनाभ्युपगमे, भवति जायते, तुशब्दः पादपूरणे, कथञ्चित् केनचित् प्रकारेण, यतनाविशेषेण प्रवर्त्तमानस्य सर्वथाऽपि न भवतीत्यपीति दर्शनार्थं कथञ्चिद्ग्रहणम्, यद्यपि चासौ प्रतिषिद्ध इत्येतदिह स्थाने द्रष्टव्यम्, तथापि तईति तका सा जिनपूजा परिशुद्धा निरवद्या, केषाम् ? गृहिणाम्, न तु साधूनाम्, यतः अधिकारवशाच्छास्त्रे, धर्मसाधनसंस्थितिः । Jain Education International व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः ||१|| [हारि० अष्टक०२५] इति । कथं परिशुद्धा ? इत्याह- कूपोदाहरणस्य अवटखननज्ञातस्य योग: सम्बन्धो दान्तिकयोजनं कूपोदाहरणयोगस्तस्मादिति । उदाहरणयोजनं चैवम् - यद्विशिष्टगुणान्तरसम्पादकं तदीषद्दोषदुष्टमपि परिशुद्धमवसेयम्, यथा श्रम - तृष्णा - कर्दमलेपादिदोषयुक्तं जलोद्गमसम्पाद्या- 20 कालतृष्णाछेदादिमहागुणयुक्तं कूपखननम्, विशिष्टकर्मक्षयादिगुणसम्पादिका च जिनपूजेति गाथार्थः ॥२१॥ समाधानान्तरमाह- असयेति, असदारम्भप्रवृत्ताः प्राण्युपमर्दनहेतुत्वेनाशोभनकृष्यादिव्यापारप्रसक्ताः, यद्यस्माद्धेतोः, चशब्दः समुच्चये, गृहिणी गृहस्थास्तेन हेतुना तेषां गृहिणां विज्ञेया ज्ञातव्या तन्निवृत्तिफलैव देह - गेहादिनिमित्तजीवोपसंमर्दनरूपाशुभारम्भनिवृत्तिप्रयोजनैव, भवति हि जिनपूजाजनितभावविशुद्धिप्रकर्षेण चारित्रमोहनीयक्षयोपशमसद्भावात् कालेनासदारम्भेभ्यो 25 निवृत्तिः, तथा जिनपूजाप्रवृत्तिकाले च असदारम्भाणामसम्भवाच्छुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्युच्यते एषा जिनपूजा, परिभावनीयं पर्यालोचनीयमिदं जिनपूजाया असदारम्भ१ तुलना - पञ्चाशकवृत्तिः ॥ For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy