SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ वाचकसुमतिकल्लोल - वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे [पृ०१८४] असणं ओअण-सत्तुग- मुग्ग-जगाराइखज्जगविही अ । खीराइ सूरणाई, मंडगपभिई अ विन्नेयं ॥१७॥ [पञ्चाशक० ५।२७, प्रवचनसारो० २०७] व्या० आदिशब्दः स्वगतानेकभेदसूचकः सर्वत्र सम्बध्यते, तत ओदनादि सक्त्वादि 5 मुद्गादि जगार्यादि, जगाराशब्देन समयभाषया रब्बा भण्यते । तथा खाद्यकविधिश्च, खाद्यकमण्डिका-मोदक-सुकुमारिका - घृतपूर-लपनश्री - स्वर्गच्युताप्रभृतिपक्वान्नविधिः । तथा क्षीरादि, आदिशब्दाद्दधि घृत-तक्र - तीमन - रसालादिपरिग्रहः । तथा सूरणादि, आदिशब्दादार्द्रकादिसकलवनस्पतिविकारव्यञ्जनपरिग्रहः । मण्डकप्रभृति च, मण्डकाः प्रभृतिर्यस्य ठोठिका - कुल्लरिकाचूरीयक- इड्डरिकाप्रमुखवस्तुजातस्य, तन्मण्डकप्रभृति विज्ञेयं ज्ञातव्यमिति अशनम् १ ||१७|| 10 सम्प्रति पानमाह १०६ पाणं सोवीर - जवोदगाइ चित्तं सुराइअं चेव । आउकाओ सव्वो, कक्कडगजलाइअं च तहा ॥ १८ ॥ [पञ्चाशक० ५।२८, प्रवचनसारो० २०८ ] व्या० सौवीरं काञ्जिकं यवोदकादि यवधावनम्, आदिशब्दाद् गोधूम - षष्टिकादितण्डुल15 कोद्रवधावनादिपरिग्रहः । तथा चित्रं नानाप्रकारं सुरादिकं चैव, आदिशब्दात् सरक-मैरेयकादिपरिग्रहः । तथा अप्कायः सर्वः सरः - सरित्- कूपादिस्थानसम्बन्धी । तथा कर्कटकजलादिकम्, कर्कटकानि चिर्भटिकानि, तन्मध्यवर्ति जलम्, तदादि यस्य तत् कर्कटकजलादिकम् । आदिशब्दात् खर्जूर-द्राक्षादि-चिञ्चिणिकापानकेक्षुरसादिपरिग्रहः । एतत् सर्वं पानकम् ॥१८॥ सम्प्रति खादिममाह 20 भत्तोसं दंताई, खज्जूरं नालिकेरदखाई । कक्वडिअंबगफणसाइ बहुविहं खाइमं नेअं ॥१९॥ [पञ्चाशक० ५।२९, प्रवचनसारो० २०९ ] व्या० भक्तं च तद्भोजनमोषं च दाह्यं भक्तौषम्, रूढितः परिभृष्टचणक- गोधूमादि, दन्तेभ्यो हितं दन्त्यं गुन्दादि, आदिशब्दाच्चारुकुलिका - खण्डेक्षु-शर्करादिपरिग्रहः । यद्वा दन्तादि 25 देशविशेषप्रसिद्धं गुडसंस्कृतं दन्तपवनादिस्तथा खर्जूर - नालिकेर - द्राक्षादि, आदिशब्दादक्षोटदाडिम-कर्कटिका-ऽऽम्रपनसादि, आदिशब्दात् कदल्यादिफलपटलपरिग्रहः, बहुविधं खादिमं ज्ञेयम् ||१९|| स्वादिममाह १ तुलना- प्रवचनसारोद्धारवृत्तिः, एवमग्रेऽपि ज्ञेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy