________________
त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम्
१०५
ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं सङ्क्रामति तर्हि स गच्छन्नागच्छन्वा कस्मान्न दृश्यते ? उच्यते-कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वाच्च । तथा च परतीर्थिकैरप्युक्तम्
अन्तराभवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् वा प्रविशन् वा, नाभावोऽनीक्षणादपि ॥१॥ [वार्तिकालं०] 5 तदेवं चतुर्द्धा मनोयोगश्चतुर्द्धा वाग्योग: सप्तधा काययोगः, इति पञ्चदश योगाः ।
ननु तैजसमपि शरीरं विद्यते यद्भुक्ताहारपरिणमनहेतुर्यद्वशाद्विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमस्तस्य तत् किमिह नोक्तमिति ? उच्यते-सदा कार्मणेन सहाव्यभिचारितया तस्य तद्ग्रहणेनैव गृहीतत्वादिति ॥१४॥ [पृ०१८२] जुंजणकरणं तिविहं, मण वइ काए अ मणसि सच्चाइ । 10
सट्ठाणे तेसि भेओ, चउ चउहा सत्तहा चेव ॥१५॥ [आव०नि० १०३८] व्या० योजनाकरणं त्रिविधं त्रिप्रकारं मण वइ काए अ त्ति मनोवाक्कायविषयम् । तत्र मनसि सत्यादिमनोविषयं सत्यादियोजनाकरणम्, तद्यथा-सत्यमनोयोजनाकरणम् असत्यमनोयोजनाकरणं सत्यासत्यमनोयोजनाकरणम् असत्यामृषामनोयोजनाकरणम् इति च । स्वस्थाने प्रत्येक मनोवाक्कायलक्षणे तेषां योजनाकरणानां भेदो विभागः चउ चउहा सत्तहा चेव त्ति, 15 अयम् अत्र भावार्थः-मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि सत्यवाग्योजनादिकरणादिचतुर्भेदमेव द्रष्टव्यम् । काययोजनाकरणं तु सप्तभेदम्, तद्यथा-औदारिककाययोजनाकरणम्, एवमौदारिकमिश्रम्, एवं वैक्रियकायः, एवं वैक्रियमिश्रम्, एवमाहारककायः, एवमाहारकमिश्रम्, एवं कार्मणकाययोजनाकरणमिति गाथार्थः ॥१५॥ [पृ०१८३] संकप्पो संरंभो, परितावकरो भवे समारंभो ।
20 आरंभो उद्दवओ, सुद्धनयाणं तु सव्वेसिं ॥१६॥
__व्यवहारभा० ४६, निशीथ० १८१३, प्रवचनसारो० १०६०] व्या० प्राणातिपातं करोमीति यः सङ्कल्पोऽध्यवसायः स संरम्भः, यस्तु परस्य परितापकरो व्यापारः स समारम्भः, अपद्रावयतो जीवितात् परं व्यपरोपयतो व्यापार आरम्भः, आह च चूर्णिकृत्- पाणाइवायं करोमीति जो संकप्पं करेइ-चिन्तयतीत्यर्थः- संरंभे वइ । 25 परितावणं करेइ समारंभे वट्टइ इति । एतच्च संरम्भादित्रयं सर्वनयानामपि शुद्धानां सम्मतम्, अथवा सुद्धाणमित्यत्र प्राकृतत्वात् पूर्वस्याकारस्य लोपो द्रष्टव्यः, ततोऽयमर्थः सर्वनयानामप्यशुद्धानां एतत् संरम्भादित्रितयं सम्मतम्, न तु शुद्धानामिति ॥१६॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International