________________
१०४ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे तदसत्यामृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं नापि मृषेति, इदमपि व्यवहारनयमतेन द्रष्टव्यम्, निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवति, अन्यथा तु सत्ये इति ४। यथा मनः सत्यादिभेदाच्चतुर्द्धा तथा वागपि सत्यादिभेदाच्चतुर्द्धा । तथा
औदारिक-वैक्रिया-ऽऽहारकाणि, तत्र उदारं प्रधानम्, प्राधान्यं च तीर्थकर-गणधरशरीरापेक्षया 5 द्रष्टव्यम्, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात् । अथवा उदारं सातिरेकयोजनसहस्रमानत्वाच्छेषशरीरेभ्यो बृहत्प्रमाणम्, बृहत्ता चास्य वैक्रियमाश्रित्य भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथा उत्तरवैक्रियं योजनलक्षमानमपि लभ्यत इति। उदारमेव
औदारिकम् । तथा विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम्, तथाहियदेकं भूत्वाऽनेकम् अनेकं भूत्वा चैकं तथा अणु भूत्वा महद्भवति महद्भूत्वा अणु इत्यादि। 10 तथा चतुर्दशपूर्वविदां तीर्थकरस्फातिदर्शनादिकतथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाह्रियते निर्वर्त्यत इत्याहारकम् । तथा मिश्रशब्दः प्रत्येकं सम्बध्यते-औदारिकमिश्रं वैक्रियमिश्रम्
आहारकमिश्रं च, तत्रौदारिकमिश्रं कार्मणेन, तच्चापर्याप्तावस्थायां केवलिसमुद्घातावस्थायां वा, उत्पत्तिदेशे हि पूर्वभवादनन्तरागतो जीव आद्यसमये कार्मणेनैव केवलेनाहारयति, ततः परमौ
दारिकस्याप्यारब्धत्वादौदारिकेण कार्मणमिश्रेण यावच्छरीरस्य निष्पत्तिः । केवलिसमुद्घातावस्थायां 15 तु द्वितीय-षष्ठ-सप्तमसमयेषु कार्मणेन मिश्रम् औदारिकं प्रतीतमेव । तथा वैक्रियमिश्रं
कार्मणेनौदारिकेण वा, तत्र कार्मणेन मिश्रं देव-नारकाणाम् अपर्याप्तावस्थायामाद्यसमयादनन्तरं द्रष्टव्यम्, बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यङ्मनुष्याणां वैक्रियाहारकलब्धिमतां वैक्रियारम्भकाले औदारिकेण मिश्रम्, तथा सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं त्यजत औदारिकं गृह्णत
आहारकं वा प्रारभमाणस्याहारकमिश्रमौदारिकेण ज्ञेयम् । तथा कम्मयगं ति कर्मणो जातं 20 कर्मात्मकमित्यर्थः, तदेव कर्मजकम्, किमुक्तं भवति ? कर्मपरमाणव एवात्मप्रदेशैः सह
क्षीरनीरवदन्योन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति, अत एव तदन्यत्र कार्मणमित्युक्तम्, कर्मणो विकारः कार्मणमिति । तथा चोक्तम्
कम्मविवागो कम्मणमट्टविहचित्तकम्मनिप्फन्नं ।
सव्वेसिं सरीराणं कारणभूअं मुणेअव्वं॥ [ ] 25 अत्र सव्वेसिमिति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं बीजभूतं कार्मणशरीरमिति,
न खल्वामूलसमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः । इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं करणम्, तथाहि- कर्मजेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org