SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् १०३ [पृ०१८१] मणसा वयसा काएण, वा वि जुत्तस्स विरिअपरिणामो । जीवस्स अप्पणिज्जो, स जोगसनो जिणक्खाओ ॥१२॥ व्या० मनसा वचसा कायेन वाऽपि युक्तस्य जीवस्य आत्मीयो यो वीर्यपरिणामः स योगसञो जिनाख्यातः । एतावता मनोयुक्तस्य वचोयुक्तस्य अथवा काययुक्तस्य यो जीवस्य परिणामः स एव योग इति ॥१२॥ 5 तेओजोगेण जहा, रत्तत्ताइ पडस्स परिणामो । जीवकरणप्पओगे, विरिअमवि तहऽप्पपरिणामो ॥१३॥ व्या० तेजोयोगेन रञ्जकद्रव्ययोगेन यथा रक्तत्वं पटस्य परिणामः, अन्यथा रञ्जकं द्रव्यं भिन्नं पटोऽपि भिन्नः, परं तद्योगात् पटस्यापि रक्तपरिणामो लोके दृश्यते, एवं जीवकरणप्रयोगे वीर्यमप्यात्मपरिणामः, अन्यथा जीवो भिन्नस्तिष्ठति करणानि मनोवचनकायरूपाणि भिन्नानि 10 सन्ति, तथापि वीर्यमात्मपरिणाम एव, मनसा करणेन युक्तस्य योगो वीर्यपर्यायोऽन्धस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोगः । एवं वाग्योगोऽपि काययोगोऽपि ॥१३॥ [पृ०१८२] सच्चं १ मोसं २ मीसं ३, असच्चमोसं ४ मणो वई चेव ८ । काओ उराल १ विक्किअ २, आहारग ३ मीस ६ कम्मइगो ७ ॥१४॥ व्या० यद्यपि मनोवाक्कायावष्टम्भसमुत्थो जीवस्य परिस्पन्द एव योग उच्यते, तथापीह 15 योगशब्देन कारणे कार्योपचारात्तत्सहकारिभूतं मनःप्रभृत्येव विवक्षितम्, इति तैस्सह योगस्य सामानाधिकरण्यम् । तत्र मनश्चतुर्द्धा, तद्यथा-सत्यं मृषा मिश्रमसत्यमृषा च । तत्र सन्तो मुनयः पदार्था वा जीवादयस्तेषु यथासङ्ख्यं मुक्तिप्रापकत्वे यथावस्थितवस्तुस्वरूपचिन्तनेन साधु सत्यम्, यथा अस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुप्रतिभासनपरम् सत्यम् १ । विपरीतमसत्यम्, यद्वा नास्ति जीव एकान्तसद्रूपो वेत्याद्ययथावस्थितवस्तुप्रतिभासनपरम् 20 २ । सत्यं च मृषा चेति मिश्रम्, यथा धव-खदिर-पलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमिति विकल्पनापरः । अत्र हि कतिपयाशोकवृक्षाणां सद्भावादसत्यता, व्यवहारनयापेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, तथाविकल्पितार्थायोगात् ३। तथा यन्न सत्यं नापि मृषा तदसत्यामृषा, इह विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण विकल्प्यते, यथा-अस्ति जीवस्सदसद्रूप इति, तत् किल सत्यम्, परिभाषितस्याराधकत्वात्, 25 यत् पुनर्विप्रतिपत्तौ सत्यां वस्तु प्रतिष्ठाशया सर्वज्ञमतोत्तीर्णं विकल्प्यते, यथा-नास्ति जीव एकान्तनित्यो वेति, तदसत्यम्, विराधकत्वात् । यत् पुनर्वस्तु प्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरम्, यथा- हे देवदत्त ! घटमानय, गां देहि मह्यमित्यादि चिन्तनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy