________________
वाचकसुमतिकल्लोल - वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
सङ्ख्याता एवेति । उद्वर्त्तमाना अपि सन्तो भवनपति - व्यन्तरादिभ्य एवोद्वर्त्तन्ते । तथा जघन्यत को योवा, उत्कर्षतः सङ्ख्याता असङ्ख्याता वा यावत् सहस्रारकल्पः, सहस्रारकल्पादूर्ध्वम् उत्कर्षतः सङ्ख्याता एव च्यवन्ते । आनतादिच्युता हि मनुष्येष्वेवागच्छन्ति, न तिर्यक्षु, मनुष्याश्च सङ्ख्याता एवेति। एकेन्द्रियेषु प्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, 5 न त्वेकः सङ्ख्याता वा इति । आह च
१०२
अणुसमयमसंखेज्जा, संखेज्जाऊअतिरिअमणुआ य । एगिदिएसु गच्छे, आरा ईसाणदेवा य || ९ || [ बृहत्सं० ३३५]
व्या० एकेन्द्रियेषु अनुसमयं समयं समयं प्रति असङ्ख्येया जीवा उत्पद्यन्ते, ते के ? सङ्ख्येयायुषस्तिर्यमनुष्याः, असङ्ख्यातवर्षायुषां युगलिनां देवेष्वेवोत्पादात् । च पुनः 10 ईशानदेवलोकादर्वाग् ये देवाः, कोऽर्थः ? सौधर्मदेवलोकान्ता देवाः भवनपति - व्यन्तरज्योतिस्सौधर्मपर्यवसानाः गच्छन्ति यान्ति इत्यर्थः ||९||
अथवैकेन्द्रियेषु अनन्ता अपि उत्पद्यन्ते जीवा इति तदाह
एगो असंखभागो, वट्टइ उव्वट्टणोववायम्मि ।
एगनिगोए निच्वं, एवं सेसेसु वि स एव ||१०|| [ बृहत्सं० प्रक्षेप० ३३५ ] 15 व्या० एकोऽसङ्ख्यभाग एकस्मिन्निगोदे उद्वर्त्तनोपपाते वर्त्तते, कोऽर्थः ? एकस्य निगोदस्यैकोऽसङ्ख्यभागोऽनन्तजीवात्मक उद्वर्त्तते उत्पद्यते च, समये समयेऽनन्तजीवात्मको निगोदासङ्ख्यभागः उद्वर्त्तते निस्सरति पुनरुत्पद्यते, एवं शेषेष्वपि विषयेषु द्वीन्द्रियादिषु उद्वर्त्तनमुपपातश्च विज्ञेयौ ॥१०॥
[पृ०१८०] इह च वीर्यान्तरायक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धि20 पूर्वमात्मनो वीर्यं योगः, तत्पर्यायानाह
25
जोगो वीरिअं थामो, उच्छाह परक्कमो तहा चेट्ठा ।
सत्ती सामत्थं ति अ, जोगस्स हवंति पजाया ॥११॥ [ पञ्चसंग्रहे ३९६ ] व्या० योगो १ वीर्यं २ स्थाम ३ उत्साहः ४ परिक्रमः ५ तथा चेष्टा ६ शक्तिः ७ सामर्थ्यम् ८ इति योगस्य भवन्ति पर्यायाः, घट- कुम्भ-कलशादिवत् ।
अथ योगशब्दस्य व्युत्पत्तिर्लिख्यते - युज्यते जीवः कर्मभिर्येन कम्मं जोगनिमित्तं बज्झइ ] इति वचनात्, युङ्क्ते वा प्रयुङ्क्ते वा यं पर्यायं स योगो वीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति, आह च
[
१ 'भवनपत्यादयः एकेन्द्रियेषु पृथिव्यम्बुवनस्पतिषु मध्ये समुत्पद्यन्ते, न तेजोवायुषु तथाभवस्वाभाव्यात् । ' - इति बृहत्सङ्ग्रहणीवृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org