SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ १०१ त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् [पृ०१७६] परेणैवमविशेषे प्रेरिते यो विशेषस्तमभिधित्सुः सूरिराहआगारोऽभिप्पाओ, बुद्धि किरिआ फलं च पाएणं । जह दीसइ ठवणिंदे, न तहा नामे न दव्विंदे ॥६॥ [विशेषाव० ५३] व्या० यथा स्थापनेन्द्रे आकारो लोचनसहस्र-कुण्डल-किरीट-शचीसन्निधानकरकुलिशधारण-सिंहासनाध्यासनादिजनितातिशयो देहसौन्दर्यभावो दृश्यते, तथा स्थापनाकर्तुश्च 5 यथा सद्भूतेन्द्राभिप्रायो विलोक्यते, तथा द्रष्टश्च यथा तदाकारदर्शनादिन्द्रबुद्धिरुपजायते, यथा चैनमुपसेवमानानां तद्भक्तिपरिणतबुद्धीनां नमस्करणादिका क्रिया संवीक्ष्यते फलं च यथा प्रायेणोपलभ्यते पुत्रोत्पत्त्यादिकं न तथा नामेन्द्रे नापि च द्रव्येन्द्रे । ततो नाम-द्रव्याभ्यां तावद् व्यक्त एव भेदः स्थापनाया इति भावः, इति गाथार्थः ॥६॥ पृ०१७६] तदेवं स्पष्टतया लक्ष्यमाणत्वादादावेव नाम-द्रव्याभ्यां स्थापनाया भेदमभिधाय 10 नाम-स्थापनाभ्यां द्रव्यस्य भेदमभिधित्सुराह भावस्स कारणं जह, दव्वं भावो अ तस्स पज्जाओ । उवओगपरिणइमओ, न तहा नामं न वा ठवणा ॥७॥ [विशेषाव० ५४] व्या० यथाऽनुपयुक्तवक्तृप्रभृतिकं साधुद्रव्येन्द्रादिकं वा द्रव्यं भावस्य उपयोगरूपस्य भावेन्द्रपरिणतिरूपस्य वा यथासङ्ख्येन कारणं निमित्तं भवति, यथा च उवओगपरिणइमओ 15 त्ति उपयोगमयो भावेन्द्रपरिणतिमयश्च भावो यथासङ्ख्येन तस्य अनुपयुक्तवक्तृप्रभृतिकस्य साधुद्रव्येन्द्रादिकस्य वा द्रव्यस्य पर्यायो धर्मो भवति, न तथा नाम नापि स्थापनेति । इदमुक्तं भवति-यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तत्वकाले तस्य उपयोगलक्षणस्य भावस्य कारणं भवति, सोऽपि वा उपयोगलक्षणो भावः तस्य अनुपयुक्तवक्तृरूपस्य द्रव्यस्य पर्यायो भवति, यथा वा साधुजीवो द्रव्येन्द्रस्सन् भावेन्द्ररूपायाः परिणतेः कारणं भवति, सोऽपि भावेन्द्रपरिणतिरूपो 20 भावस्तस्य साधुजीवद्रव्येन्द्रस्य पर्यायो भवति, न तथा नाम-स्थापने । अतस्ताभ्यां द्रव्यस्य भेदः । नाम्नस्तु स्थापना-द्रव्याभ्यां भेदः सामर्थ्यादेवावसीयत इति । तदेवं यद्यपि परप्रेरितप्रकारेण नाम-स्थापना-द्रव्याणामभेदस्तथाप्युक्तरूपेण प्रकारान्तरेण भेदः सिद्ध एव, नहि दुग्ध-तक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिनाऽपि न भेदः, अनन्तधर्माध्यासितत्वाद्वस्तुन इति गाथार्थः ॥७॥ [पृ०१७८] एगो व दो व तिण्णि व, संखमसंखा य एगसमएणं । 25 उववजंतेवइआ, उव्वटुंता वि एमेव ॥८॥ [बृहत्सं० १५६] व्या० भवनवास्यादिषु प्रत्येकमेकस्मिन् समये जघन्यत एको द्वौ त्रयो वा उत्पद्यन्ते, उत्कर्षतः सङ्ख्याता असङ्ख्याता वा । सहस्रारादूर्ध्वं सर्वेष्वपि देवलोकेषूत्कर्षतः सङ्ख्याता एवोत्पद्यन्ते, नासङ्ख्याताः, यतो मनुष्या एव सहस्रारादूर्ध्वं गच्छन्ति, न तिर्यञ्चः, मनुष्याश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy