________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
अनुपयुक्तः तदुपयोगशून्यः किंविशिष्ट इत्याह- मङ्गलशब्दानुवासितो मङ्गलशब्दार्थज्ञानावरणक्षयोपशमसंस्कारानुरञ्जितमनास्तज्ज्ञानलब्धिमानिति यावत् । ननु यदि तज्ज्ञानलब्धिमांस्तर्हि किमिति द्रव्यम् ? इत्याह तन्नाणेत्यादि, तज्ज्ञानलब्धिसहितोऽपि मङ्गलशब्दार्थज्ञानावरणक्षयोपशमवानपि नोपयुक्तस्तत्र मङ्गलशब्दार्थे यस्मादसौ तो त्ति तस्माद् द्रव्यमङ्गलम् । इदमुक्तं 5 भवति - अनुपयोगो द्रव्यम् [ अनुयोग० सू०१४ ] इति वचनान्मङ्गलशब्दार्थं जानन्नपि तत्रानुपयुक्तस्तं प्ररूपयंस्तज्ज्ञान- लब्धिसहितोऽप्यागमतो द्रव्यमङ्गलमिति गाथार्थः ||३|| मंगलपयत्थजाणयदेहो भव्वस्स वा स जीवो त्ति ।
१००
नोआगमओ दव्वं, आगमरहिओ त्ति जं भणिअं ॥४॥ [विशेषाव० ४४]
व्या० मङ्गलपदार्थज्ञस्य जो देह आत्मरहितः तदतीतकालानुभूततद्भावानुवृत्त्या 10 सिद्धशिलातलादिगतो घृतघटादिन्यायेन नोआगमतो द्रव्यमङ्गलमिति मङ्गलज्ञानशून्यत्वाच्च तस्येह सर्वनिषेध एव नोशब्दः । वाऽथवा भव्यो योग्यो मङ्गलशब्दार्थं ज्ञास्यति, यो न तावद्विजानाति, स भव्य इति, तस्य देहो भव्यदेहस्तदेव मङ्गलं भव्यदेहद्रव्यमङ्गलम् । अयमत्र भावार्थः- भाविनीं वृत्तिमङ्गीकृत्य मङ्गलोपयोगाधारत्वान्मधुघटादिन्यायेनैव तद्बालादिदेहः सजीवोऽपि भव्यहो द्रव्यमङ्गलमिति । नोशब्दः पूर्ववत् । यद्यस्मात् कारणादागमरहितो मङ्गलपदार्थज्ञदेहो भव्यदेहश्च, 15 आगमशब्देन ज्ञानम्, तेन रहितो मङ्गलज्ञानशून्यत्वादुभावपि देहौ द्रव्यमङ्गलमिति तात्पर्यम् ||४|| [पृ०१७६ ] एतेषु च नामादिमङ्गलेष्वाद्यत्रयस्यान्योन्यमभेदं पश्यन् परः प्रेरयति - अभिहाणं दव्वत्तं, तदत्थसुन्नत्तणं च तुल्लाई ।
को भाववज्जिआणं, नामाईणं पइविसेसो ? || ५ || [विशेषाव० ५२]
व्या० भाववर्जितानां भावमेकं वर्जयित्वा शेषाणां नामादीनां नाम - स्थापना - द्रव्याणा20 मित्यर्थः। कः प्रतिविशेषः ?, न कश्चिदित्यर्थः । कुतः ? इति चेदुच्यते यत एतानि त्रिष्वपि तुल्यानि । कानि पुनस्तानि ? इत्याह- अभिधानं तावन्नाम त्रिष्वपि तुल्यं नामवति पदार्थे स्थापनायां द्रव्ये च, मङ्गलाभिधानमात्रस्य सर्वत्र भावात् । तथा द्रव्यत्वमपि त्रिष्वपि तुल्यम्, यतो जस्स णं जीवस्स वा अजीवस्स वा मंगलं ति नाम कीरड़ [ ] इत्यादिवचनान्नाम्नि तावद् द्रव्यमेवाभिसम्बध्यते । स्थापनायामपि यत् स्थाप्यत इति वचनाद् द्रव्यमेव योज्यते । 25 द्रव्ये तु द्रव्यत्वं विद्यत एवेति त्रिष्वपि द्रव्यत्वस्य तुल्यता । तथा तदर्थशून्यत्वं च भावार्थशून्यत्वं चत्रिष्वपि समानम्, नाम - स्थापना - द्रव्येषु भावमङ्गलस्याभावात्, तस्मादभिधानद्रव्यत्वभावार्थशून्यत्वानां समानत्वान्नाम - स्थापना- द्रव्याणां परस्परमभेदः । भावे तु तदर्थशून्यत्वं नास्तीत्येतावताऽसौ नामादिभ्यो विशेष्यत इति भाव इति गाथार्थः ||५||
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org