________________
[अथ त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम्] [पृ०१७४] सामान्येन सद्भावस्थापनोदाहरणमाहलेप्पगहत्थी हत्थि त्ति, एस सब्भाविआ भवे ठवणा । होइ असब्भावे पुण, हत्थि त्ति निरागिई अक्खो ॥१॥ [आव०नि० १४४७]
व्या० यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते । एस सब्भाविआ भवे ठवण 5 त्ति एषा सद्भावस्थापना भवति । असद्भावे पुनर्हस्तीति निराकृतिः अक्षो हस्त्याकृतिशून्य एव चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति ॥१॥
दवए १ दुअए २ दोरवयवविगारो ३ गुणाण संदावो । दव्वं भव्वं भावस्स, भूअभावं च जं जोगं ॥२॥ [विशेषाव० २८] ति ।
व्या० दु द्रु गतौ [पा.धा. ९४४-९४५] इति धातुस्ततश्च द्रवति तांस्तान् पर्यायान् प्राप्नोति 10 मुञ्चति चेति, द्रव्यमित्युत्तरार्द्धादानीय सर्वत्र सम्बध्यते । तथा द्रूयते स्वपर्यायैरेव प्राप्यते मुच्यते चेति द्रव्यम्, यान् किल पर्यायान् द्रव्यं प्राप्नोति तैस्तदपि प्राप्यते याँश्च मुञ्चति तैस्तदपि मुच्यते इति भावः । तथा द्रवति तांस्तान् पर्यायान् गच्छतीति द्रुः सत्ता, तस्या एवावयवो विकारो वेति द्रव्यम्, अवान्तरसत्तारूपाणि हि द्रव्याणि महासत्ताया अवयवो विकारो वा भवन्त्येवेति भावः । तथा गुणा रूपरसादयस्तेषां सन्द्रवणं सन्द्रावः समुदायो घटादिरूपो द्रव्यम्। 15 तथा भव्वं भावस्स त्ति भविष्यतीति भावस्तस्य भाविनः पर्यायस्य यद् भव्यं योग्यम्, तदपि द्रव्यम्, राज्यपर्यायाहराजकुमारवत् । तथा भूतभावं चेति भूतः पश्चात्कृतो भावः पर्यायो यस्य तद् भूतभावम्, तदपि द्रव्यम्, अनुभूतघृताधारत्वपर्यायरिक्तघृतघटवत् चशब्दाद्भूतभविष्यत्पर्यायं च द्रव्यमिति ज्ञातव्यम्, भूतभविष्यद्धृताधारत्वपर्यायरिक्तघृतघटवदिति । एतदपि भूतभावं तथा भूतभविष्यद्भावं च कथम्भूतं सद् द्रव्यमित्याह- यद्योग्यं भूतस्य भावस्य, भूतभविष्यतोश्च 20 भावयोरिदानीमसत्त्वेऽपि यद्योग्यम् अहं तदेव द्रव्यमुच्यते, नान्यत्, अन्यथा सर्वेषामपि पर्यायाणामनुभूतत्वादनुभविष्यमाणत्वाच्च सर्वस्यापि पुद्गलादेव्यत्वप्रसङ्गादिति गाथार्थः ।।२।।
आह विनेयः- ननु सामान्येन द्रव्यलक्षणमवगतम्, परन्तु द्रव्यमङ्गलं किमभिधीयते । इति प्रस्तुतं निवेद्यतामित्याह
आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता । तन्नाणलद्धिजुत्तो वि ण उवउत्तो त्ति तो दव्वं ॥३॥ [विशेषाव० २९]
व्या० इह द्रव्यमङ्गलं तावद् द्विधा भवति- आगमतः आगममाश्रित्य नोआगमतश्च नोआगममाश्रित्य । तत्रागमो मङ्गलशब्दार्थो ज्ञानस्वरूपोऽत्राभिप्रेतस्तमाश्रित्य द्रव्यं द्रव्यमङ्गलमिति पर्यन्ते सम्बन्धः । कोऽसौ ? इत्याह- वक्ता मङ्गलशब्दार्थप्ररूपकः । किं सर्वोऽपि ? नेत्याह
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org