SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे व्या० भवनपतयो व्यन्तराश्च कृष्णनीलकापोततेजोलेश्याकाः, कृष्णा नीला कापोती तैजसी चैषां लेश्या भवतीत्यर्थः । तत्रापि परमाधार्मिकाः कृष्णलेश्याः, तथा ज्योतिष्केषु सौधर्मेशानयोश्च देवास्तेजोलेश्याका ज्ञातव्याः ॥५८॥ [पृ०१७१] दो कायप्पविआरा, कप्पा फरिसेण दोण्णि दो रूवे । 5 सद्दे दो चउर मणे, उवरिं परिचारणा नत्थि ॥५९॥ [बृहत्सं०१८१, प्रवचनसारो० १४३९] व्या० द्वौ कल्पाविति, मर्यादायां कल्पशब्देन तात्स्थ्यात् कल्पस्था देवाः, ततोऽयमर्थःभवनपत्यादय ईशानान्ता देवाः क्लिष्टोदर्कपुंवेदानुभावान्मनुष्यवन्मैथुने निमज्जन्तः सर्वाङ्गीणं काय क्लेशजं स्पर्शानन्दमासाद्य तृप्यन्ति, नान्यथेति । कायेन शरीरेण मनुष्यस्त्रीपुंसानामिव प्रवीचारो 10 मैथुनोपसेवनं ययोस्तौ कायप्रवीचारौ । तथा स्पर्शेन द्वौ सनत्कुमार-माहेन्द्रौ सप्रवीचारौ, तद्देवा हि मैथुनाभिलाषिणो देवीनां स्तनाद्यवयवस्पर्शलीलयैव कायप्रवीचारदेवेभ्योऽनन्तगुणं सुखमवाप्नुवन्ति तृप्ताश्च जायन्ते, देवीनामपि देवैः स्पर्शे कृते सति दिव्यप्रभावतः शुक्रपुद्गलसञ्चारेणानन्तगुणं सुखमुत्पद्यते, एवमग्रेऽपि भावना कार्या । तथा द्वौ ब्रह्मलोक-लान्तकौ रूपदर्शने सप्रवीचारौ, देवीनां दिव्योन्मादजनकरूपावलोकनेनैव तत्र सुराः सुरतसुखजुषो जायन्त इत्यर्थः । 15 तथा द्वौ शुक्र-सहस्रारौ देवीशब्दे श्रुते सति सप्रवीचारी, सुरसुन्दरीणां सविलासगीत-हसित भाषित-भूषणादिध्वनिमाह्लादकमाकर्योपशान्तवेदास्तत्र देवा भवन्तीत्यर्थः । तथा चत्वार आनतप्राणता-ऽऽरणा-ऽच्युताभिधानदेवलोकदेवा मनसा सप्रवीचारा भवन्ति, ते हि यदा प्रवीचारचिकीर्षया देवीश्चित्तस्य गोचरीकुर्वन्ति तदैव तास्तत्सङ्कल्पाज्ञानेऽपि तथाविधस्वभावतः कृताद्भुतशृङ्गाराः स्वस्थानस्थिता एव उच्चावचानि स्वमनांसि दधाना मनसैव भोगायोपतिष्ठन्ते, 20 तत इत्थमन्योऽन्यं मनःसङ्कल्पे दिव्यप्रभावाद्देवीषु शुक्रपुद्गलसङ्क्रमत उभयेषां कायप्रवीचाराद नन्तगुणं सुखं सम्पद्यते तृप्तिश्चोल्लसतीति । उपरि च ग्रैवेयकादिषु स्त्रीप्रवीचारः स्त्रीसेवा च नास्तीति ॥५९॥ इति श्रीवाचनाचार्यसुमतिकल्लोलगणि-वादिहर्षनन्दनगणिभ्यां लिखिते ___श्री स्थानाङ्गटीकागतोक्तगाथाविवरणे द्विस्थानकटीकागतोक्तगाथाविवरणं सम्पूर्णम् । सर्वा गाथाः १६९। 25 १. तुलना-प्रवचनसारोद्धारवृत्तिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy