________________
९७
द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम् भवनपतिदेव-देवीनां जघन्यां व्यन्तरदेवानामुत्कृष्टां च स्थितिमाहदस भवणवणयराणं, वाससहस्सा ठिई जहन्नेणं । पलिओवममुक्कोसं, वंतरिआणं विआणेजा ॥५६॥ [बृहत्सं०४, प्रवचनसारो०११४०]
व्या० सूचकत्वात् सूत्रस्येति भवनपतिदेवानां तद्देवीनां च जघन्येन स्थितिर्दश वर्षसहस्राणि। जघनमधस्तानिकृष्टो भागः, तत्र भवं जघन्यं रोममलादि, तच्च किल स्तोकम्, ततोऽन्यदपि 5 स्तोकं लक्षणया जघन्यमित्युच्यते, केवलं भावप्रधानत्वानिर्देशस्य जघन्येन जघन्यतया स्तोकतयेत्यर्थः । तथा व्यन्तराणां व्यन्तरदेवानामुत्कृष्टां स्थितिं विजानीयात् पल्योपमप्रमाणाम्, तद्देवीनां तु पल्योपमार्द्धमुत्कृष्टा स्थितिः प्रागेवोक्तेति ॥५६॥
दो १ साहि २ सत्त ३ साहिअ ४, दस ५ चोद्दस ६ सत्तरेव ७ अयराइं । सोहम्मा जा सुक्को, तदुवरि एक्केक्कमारोवे ॥५७॥ [बृहत्सं० १२, प्रवचनसारो० ११४३] 10
व्या० सौधर्मात् सौधर्मकल्पाद्यावत् शुक्रो महाशुक्रकल्पस्तावदनेन क्रमेणोत्कृष्टा स्थितिः प्रतिपत्तव्या । तथाहि- सौधर्मे कल्पे देवानामुत्कृष्टा स्थितिः द्वे अतरे सागरोपमे इत्यर्थः, तरीतुमशक्यं प्रभूतकालतरणीयत्वादतरं सागरोपमम् इत्यर्थः । ईशाने त एव द्वे सागरोपमे साधिके किञ्चित्समधिके । सनत्कुमारे सप्त सागरोपमाणि, माहेन्द्रे तान्येव सप्त सागरोपमाणि साधिकानि, ब्रह्मलोके दश सागरोपमाणि, लान्तके चतुर्दश, महाशुक्रे सप्तदश । तदुवरि एक्केक्कमारोवे 15 इति, तस्य महाशुक्रस्य कल्पस्योपरि सहस्रारादिषु प्रतिकल्पं प्रतिग्रैवेयकं च पूर्वस्मादधिकम् एकैकं सागरोपममुत्कृष्टायुश्चिन्तायामारोपयेत् । तद्यथा- सहस्रारेऽष्टादश सागरोपमाण्युत्कृष्टा स्थितिः, आनते एकोनविंशतिः, प्राणते विंशतिः, आरणे एकविंशतिः, अच्युते द्वाविंशतिः। अधस्तनाधस्तने ग्रैवेयके त्रयोविंशतिः, अधस्तनमध्यमे च चतुर्विंशतिः, अधस्तनोपरितने पञ्चविंशतिः, मध्यमाधस्तने षड्विंशतिः, मध्यममध्यमे सप्तविंशतिः, मध्यमोपरितनेऽष्टाविंशतिः, 20 उपरितनाधस्तने एकोनत्रिंशत्, उपरितनमध्यमे त्रिंशत्, उपरितनोपरितने ग्रैवेयके एकत्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः । एकैकवृद्ध्या चैकत्रिंशतोऽनन्तरमनुत्तरेषु द्वात्रिंशदेव स्यादतस्तेषु पृथगेव स्थितिरुक्ताऽस्तीति ॥५७।।
इयमुत्कृष्टा, जघन्या तु - पलियं १ अहियं २ दोसार ३ साहिआ ४ सत्त ५ दस य ६ चोद्दस ७। 25 सत्तरस सहस्सारे, तदुवरि एक्केक्कमारोवे ॥५७॥ [बृहत्सं० १४, प्रवचनसारो० ११४५] किण्हा-नीला-काऊ-तेऊलेसा य भवणवंतरिआ । जोईस-सोहम्मीसाणे, तेऊलेसा मुणेअव्वा ॥५८॥ [बृहत्सं० १९३,प्रवचनसारो० ११५९]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org