________________
९६
5
10
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे कानिचित् पूज्यानि कर्पूरपाल्यादीनि इतराणि अपूज्यानि भुम्भलादीनि । एवं गोत्रं जीवं करोति लोके पूज्यतरावस्थम्, पूज्यावस्थम्-इक्ष्वाकुगोत्रसम्भवम्, इतरावस्थं चाण्डालादिगोत्रसम्भवम् ॥५२॥
जह राया दाणाइं, न कुणई भंडारिए विकूलम्मि ।। एवं जेणं जीवो, कम्मं तं अंतरायं ति ॥५३॥
व्या० यथेति दृष्टान्ते, राजा ग्रामाद्यधिपतिर्दानानि न करोति, व सति?, भाण्डागारिके विकूले प्रतिकूले सति । एवं जीवो येन कर्मणा दानादिकं न करोति, तत् कर्म अन्तरायम् इति ॥५३॥ [पृ०१६८] पउमाभवासुपुजा, रत्ता ससिपुप्फदंत ससिगोरा ।
सुव्वयनेमी काला, पासो मल्ली पिअंगाभा ॥५४॥ [आव० नि० ३७६] व्या० पद्मप्रभवासुपूज्यौ जपापुष्पवद् रक्तौ, चन्द्रप्रभसुविधी शशिगौरौ चन्द्रचारुकररुची, सुव्रतनेमिनौ इन्द्रनीलमणिवत् कालौ, पार्श्वमल्लिजिनौ प्रियङ्ग्वाभौ, प्रियङ्गुः फलिनीतरुस्तदाभौ नीलावित्यर्थः ॥५४॥
[पृ०१७०] चमर१ बलिर सारमहिअं, सेसाण सुराण आउअं वोच्छं । 15 दाहिण दिवड्डपलिअं, दो देसूणुत्तरिल्लाणं ॥५५॥ [प्रवचनसारो०११३८, बृहत्सं०५]
व्या० 'इहासुराकुमारादयो दश भवनपतिनिकायाः, एकैके च द्विधा- मेरोर्दक्षिणदिग्भागवर्त्तिनो मेरोरेवोत्तरदिग्भागवर्त्तिनश्च । तत्रासुरकुमाराणां दक्षिणदिग्भाविनामिन्द्रश्चमर उतरदिग्भाविनां बलिः। तत्र चमरबलि सारमहिअं ति पदैकदेशे पदसमुदायोपचारात् सारमिति सागरोपमं द्रष्टव्यम्,
प्राकृतत्वाच्चमर-बलिशब्दाभ्यां परतः षष्ठीविभक्तेर्लोपः । ततोऽयमर्थः- चमरबल्योः क्रमेण 20 सागरोपममधिकं चोत्कृष्टायुः । किमुक्तं भवति ?, चमरस्यासुरेन्द्रस्य दक्षिणदिग्वर्त्तिन उत्कृष्टमायुरेकं
परिपूर्णं सागरोपमम्, बलेरसुरेन्द्रस्योत्तरदिग्वर्तिनः सागरोपमं किञ्चित्समधिकमिति । सम्प्रति शेषाणां चमर-बलिव्यतिरिक्तानां सुराणां देवानां नागकुमाराद्यधिपतीनामित्यर्थः, आयुर्वक्ष्ये ।
तदेव कथयति- दाहिणेति, दाक्षिणात्यानां नागकुमाराद्यधिपतीनां धरणप्रमुखानां नवानामिन्द्राणा___ मुत्कृष्टमायुर्द्वितीयमधैं यस्य तद् व्यर्द्धं पल्योपमं सार्द्ध पल्योपममित्यर्थः । उत्तरिल्लाणं ति 25 औत्तराहाणाम् उत्तरदिग्भाविनां नागकुमारादीन्द्राणां भूतानन्दप्रभृतीनां नवानां देशोने किञ्चिदूने
द्वे पल्योपमे । उत्तरदिग्वर्त्तिनो ह्येते स्वभावादेव शुभाश्चिरायुषश्च भवन्ति, दक्षिणदिग्वर्त्तिनस्तु तद्विपरीता इति ॥५५॥
१. तुलना-बृहत्सङ्ग्रहणीवृतिः, प्रवचनसारोद्धारवृत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org