________________
द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम्
व्या० मधुना क्षौद्र - भ्रामरादिना लिप्तः अपदिग्धो निशितः तीक्ष्णः स चासौ करवालश्च मधुलिप्तनिशितकरवालस्तद्धारया जिह्वया यादृशं लेहनं तादृशं वेदनीयं सुखदुःखोत्पादकं जानीत । ज्ञो जाणमुणौ [प्राकृतव्या० ४७ ] इति प्राकृते आदेशविधानात् मुणह इति सिद्ध्यतीति गाथार्थः
॥४७॥
जह मज्जपाणमूढो, लोए पुरिसो परव्वसो होइ ।
तह मोहेण वि मूढो, जीवो वि परव्वसो होइ ||४८ || [ प्राचीनप्रथमकर्म. ३४] व्या० यथा मद्यपानमूढो मद्यपानेन नष्टचेतनो लोके पुरुषः परवशः परायत्तो भवति, तथा मोहेनापि मूढो जीवोऽपि परवशो भवतीति गाथार्थः ॥४८॥
दुक्खं न देइ आउं, नेव सुहं देइ चउसु विगई ।
दुक्खसुहाणाहारं, धरेइ देहट्ठिअं जीवं ॥ ४९ ॥ [ प्राचीनप्रथमकर्म ६३]
व्या० दुःखम् असातं न ददात्यायुः कर्म, नैव च सुखम्, दुःखसुखदाने सातासातरूपवेदनीयस्यैव समर्थत्वात्, आयुस्तु दुःखसुखाधारभूतं जीवं देहस्थितं धारयति, एतावत एव सामर्थ्यस्य सद्भावादिति गाथार्थः ॥ ४९॥
[पृ०१६६ ] जह चित्तयरो निउणो, अणेगरूवाइं कुणइ रुवाई | सोहणमसोहणाई, चोक्खमचोक्खेहिं वण्णेहिं ॥५०॥
९५
नामं कम्मं दुविहं, सुहं असुहं च आहिअं ।
सुहस्स उ बहुभेया, एवमेवासुहस्स वि ॥१॥ [ ] इति गाथाद्वयार्थः ॥५१॥
जह कुंभारो भंडाई, कुणइ पुज्जेयराई लोयस्स ।
इय गोयं कुणइ जियं, लोए पुज्जेयरावत्थं ॥५२॥
व्या० यथा कुम्भकारो भाण्डानि करोति, कीदृशानि भाण्डानि ? लोकस्य पूज्येतराणि,
Jain Education International
तह नामं पि हु कम्मं, अणेगरूवाइं कुणइ जीवस्स । सोहणमसोहणाई, इट्ठाणिट्ठाई लोअस्स ॥ ५१ ॥ [प्राचीनप्रथमकर्म. ६७, ६८]
व्या० यथा चित्रकरो निपुणः स्वकर्मणि प्रवीणः अनेकरूपाणि नानाप्रकाराणि रूपाणि हस्त्यश्वादीनि करोति शोभनाशोभनानि रम्यारम्याणि चुक्षाचुक्षैर्विशदाविशदैर्वर्णैः हरिताला - दिभिरिति ॥ ५० ॥ दाष्टन्तिके योजयति - तथा नामकर्मापि जीवस्य अनेकानि बहूनि रूपाणि 20 शोभना - ऽशोभनानि शुभाशुभान्यत एव लोकस्येष्टानिष्टानि करोति । अयमाशयः - शुभान्यपि बहुभेदानि अशुभान्यपि बहुभेदान्येव । एतेन सामान्यतः शुभाशुभभेदाद् द्विविधमपि नाम भवतीत्यवगन्तव्यम्, यदागमः -
For Private & Personal Use Only
5
10
15
25
www.jainelibrary.org