________________
९४
10
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे अप्रत्याख्यानावरणचतुष्कं प्रत्याख्यानावरणचतुष्कम्, तत एताः प्रकृतयः सर्वघातिसज्ञाः, मिथ्यात्वं विंशतितमम्, एतावता प्रकृतिविंशतिकं सर्वघातिसज्ञकम् ।
मइसुअनाणावरणं, दंसणमोहं च तदुवघाईणि । तप्फड्डगाइं दुविहाई, सव्वदेसोवघाईणि ॥४३॥ [विशेषाव० २८९५]
व्या० मतिज्ञानावरणं श्रुतज्ञानावरणं दर्शनमोहश्च, एतत् त्रयं मतिज्ञानश्रुतज्ञानसम्यक्त्वगुणावारकं वर्त्तते । तदुपघातीनि स्पर्धकानि द्विविधानि- देशसर्वोपघातीनि। देशं घातयन्तीति देशघातीनि, सर्वं घातयन्तीति सर्वघातीनि । कानिचित् स्पर्द्धकानि देशं घातयन्ति, कानिचित् सर्वं घातयन्ति ॥४३॥
सव्वेसु सव्वघाइसु, हएसु देसोवघाइआणं च ।। भागेहिं मुच्चमाणो, समए समए अणंतेहिं ॥४४॥ [विशेषाव० २८९६]
व्या० सर्वेषु सर्वघातिषु स्पर्द्धकेषु हतेषु क्षयोपशमं नीतेषु मतिज्ञानावरणश्रुतज्ञानावरणयोरिति शेषः, देशोपघातिनां स्पर्धकानां तयोरेवानन्तै गैः समये समये मुच्यमानो जीवः । कोऽर्थः ? यानि देशोपघातीनि स्पर्धकानि, तेषामनन्तो भागः समये समये यदा क्षयति उपशमयति, तदा
जीवः किं प्राप्नोति ? तदाह15 पढमं लहइ णगारं, एक्केक्कं वण्णमेवमन्नं पि ।
कमसो विसुज्झमाणो, लहइ समत्तं नमोक्कारं ॥४५॥ [विशेषाव० २८९७]
व्या० प्रथमतो लभते नकारं नमो अरिहंताणमित्यस्य पदस्य प्रथमाक्षरम्, एवमेवान्यं वर्णमपि क्रमशो विशुद्ध्यमानो लभते सम्यक्त्वं नमस्कारं च, मिथ्यादर्शनस्पर्धकानां क्षयोपशमे
सम्यक्त्वं प्राप्नोतीत्यर्थः ॥४५॥ 20 दंसणसीले जीवे, दंसणघायं करेइ जं कम्मं ।
तं पडिहारसमाणं, सणवरणं भवे बीयं ॥४६॥ [प्राचीनप्रथमकर्मग्रन्थ० १९]
व्या० दर्शनं शीलं स्वभावो यस्य स तथा दर्शनशील इति, षष्ठीसप्तम्योरर्थं प्रत्यभेदाद्दर्शनशीलस्य जीवस्येत्यर्थः । एवमन्यत्रापि भावनीयम् । दर्शनघातं करोति यत् कर्म
तत् प्रतीहारसमानं दर्शनावरणं भवेद् द्वितीयमिति गाथार्थः ॥४६॥ 25 महुलित्तनिसिअकरवालधारजीहाए जारिसं लिहणं ।।
तारिसयं वेअणिअं, सुहदुहउप्पायगं मुणह ॥४७॥ [प्राचीनप्रथमकर्म० २८]
१. सम्मत्तं इति पाठं मत्वा विवरणकारेणात्र विवरणं लिखितम् । किन्तु समत्तं इति स्थानाङ्गवृत्तौ विशेषावश्यके च पाठः । स एव चात्र समीचीनः । 'समस्तं नमस्कारम्' इति च तस्यार्थ इति ध्येयम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org