________________
द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम् द्वितीयं पुनर्भक्तप्रत्याख्यानम्, तदेवाहभत्तपरिण्णाणसणं, तिचउव्विहाहारचायनिप्फन्नं । सप्पडिकम्मं नियमा, जहासमाही विणिद्दिढें ॥३८॥
व्या० भक्तपरिज्ञाऽनशनं त्रिचतुर्विधाहारत्यागनिष्पन्नं त्रिविधं चतुर्विधं वा प्रत्याख्याति। कथम्भूतम् ? सप्रतिकर्म निश्चयेन । प्रतिकर्म शरीरप्रतिक्रिया, तद्युक्तम्, यथासमाधि समाधि- 5 मनतिक्रम्य भवतीति निर्दिष्टं प्रोक्तम् ॥३८॥ [पृ०१६३] इंगिअदेसम्मि सयं, चउव्विहाहारचायनिप्फन्नं ।
उव्वतणाइजुत्तं, नऽण्णे उ इंगिणीमरणं ॥३९॥ व्या० इङ्गितदेशे परिज्ञातस्थाने स्वयं चतुर्विधाहारत्यागनिष्पन्नं चतुर्विधाहारं प्रत्याख्याति। उद्वर्त्तनादियुक्तं स्वयमेवोद्वर्त्तनादिकं करोति, नान्येनोद्वर्त्तनं कारयति, तदिङ्गिनीमरणं भवति । 10 इङ्गितमरणं त्विह नोक्तम्, द्विस्थानकानुरोधात् ॥३९॥
पंचत्थिकायमइअं, लोगमणाइनिहणं जिणक्खायं ॥४०॥ [ध्यानशतके ५३] गाथार्द्धम्।
व्या० सुगममेव ॥४०॥ [पृ०१६४] सरउग्गयससिनिम्मलयरस्स जीवस्स छायणं जमिह ।
नाणावरणं कम्मं, पडोवमं होइ एवं तु ॥४१॥ प्राचीने प्रथमकर्मग्रन्थे १०] 15 व्या० शरदुद्गतशशिनिर्मलतरस्य जीवस्य छादनं जीवस्वभावस्य नैर्मल्यतिरोधायकं यत्तदिह लोके ज्ञानावरणं कर्म पटोपमं भवति एवं वक्ष्यमाणरीत्या, तु पुनरर्थे, इति गाथार्थः ॥४१॥
। तच्च द्विविधम्- देश-सर्वज्ञानावरणभेदात्, देशं ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम्, सर्वं ज्ञानं केवलाख्यमावृणोतीति सर्वज्ञानावरणीयम् । केवलज्ञानावरणं हि 20 आदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत् सर्वज्ञानावरणम्, मत्याद्यावरणं तु घनाच्छादितादित्येषत्प्रभावकल्पस्य केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणम् ।
[पृ०१६५] सर्वघातिप्रकृतीदर्शयतिकेवलनाणावरणं, दंसणछक्कं च मोहबारसगं अनन्तानुबन्ध्यादयः । ता सव्वघाइसन्ना, भवंति मिच्छत्तवीसइमं ॥४२॥ [बन्धशतक० ७९]
व्या० केवलज्ञानावरणं दर्शनषट्कं केवलदर्शनावरण-निद्रा-निद्रानिद्रा-प्रचलाप्रचलाप्रचला-स्त्यानाख्यम्, मोहबारसगं अनन्तानुबन्ध्यादयः, अनन्तानुबन्धिचतुष्कम्
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org