________________
द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम् व्या० सिंहादिभिरभिभूतः, आदिशब्दाद् गजादिपरिग्रहः, पादपगमनं करोति स्थिरचित्त: साधुः, आयुषो बह्वल्पान्तं विज्ञाय बहोरप्यायुषोऽल्पस्याप्यायुषोऽन्तं ज्ञात्वा । नवरं गीतार्थः कर्ता विलोक्यते, न त्वगीतार्थः, अगीतार्थस्यायुरन्ताज्ञानादिति ॥१९॥
संलेखनाविधिमाहचत्तारि विचित्ताई, विगइनिजूहिआइं चत्तारि । संवच्छरे अ दोण्णि उ, एगंतरिअं च आयाम ॥२०॥ [पञ्चव० १५७४,प्रवचनसारो०८७५]
व्या० तत्र संलेखना आगमोक्तेन विधिना शरीराद्यपकर्षणम् । सा च त्रिविधा-जघन्या षाण्मासिकी, मध्यमा संवत्सरप्रमाणा, उत्कृष्टा तु द्वादश वर्षाणि । तत्रोत्कृष्टा तावदेवम्- प्रथम चत्वारि वर्षाणि विचित्रतपांसि करोति, किमुक्तं भवति ?, चत्वारि वर्षाणि यावत् कदाचिच्चतुर्थं कदाचित् षष्ठं कदाचिदष्टममेवं दशम-द्वादशादीन्यपि करोति, पारणकं च 10 सर्वकामगुणितेनोद्गमादिशुद्धेनाहारेण विधत्ते । तत: परमन्यानि चत्वारि वर्षाणि उक्तप्रकारेण विचित्रतपांसि करोति विकृतिनिर्वृहितानि विकृतिरहितानि, किमुक्तं भवति ? विचित्रं तपः कृत्वा पारणके निर्विकृतिकं भुङ्क्ते, उत्कृष्टरसवर्जं च, ततः परतोऽन्ये द्वे च वर्षे एकान्तरितमाचाम्लं करोति, एकान्तरं चतुर्थं कृत्वा आचाम्लेन पारयतीत्यर्थः ॥२०॥
एवमेतानि दश वर्षाणि गतानि, एकादशस्य तु वर्षस्य आद्यान् षण्मासान् यत् करोति 15 तदाह
नाइविगिट्ठो अ तवो, छम्मासे परिमिअं च आयामं । अन्ने वि अ छम्मासे, होइ विगिटुं तवोकम्मं ॥२१॥
[पञ्चव० १५७५, प्रवचनसारो०८७६] व्या० नातिविकृष्टं नातिगाढं तपः करोति । नातिविकृष्टं नाम तपश्चतुर्थं षष्ठं वाऽवसेयम्, 20 नाष्टमादिकम् । पारणके तु परिमितं किञ्चिदूनोदरतासम्पन्नमाचाम्लं करोति । ततः परमपरान् षण्मासान् विकृष्टम् अष्टम-दशम-द्वादशादिकं तपः करोति, पारणके तु मा शीघ्रमेव मरणं यासिषमिति कृत्वा परिपूर्णध्राण्या आचाम्लं करोति, न पुनरूनोदरतयेति ॥२१॥
द्वादशे वर्षे यत् करोति तदाहवासं कोडीसहिअं, आयामं काउ आणुपुव्वीए ।
संघयणादणुरूवं, एत्तो अद्धाइ नियमेणं ॥२२॥ [पञ्चव० १५७६, प्रवचनसारो०८७७] १. तुलना- निशीथभा० ३८२४ ॥ २. तुल्यप्रायं प्रवचनसारोद्धारवृत्तौ गा. ८७५। धर्मसङ्ग्रहवृत्तौ गा. १४७ द्रष्टव्यम् ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org