________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पाद: । तेषामपि न सर्वेषाम्, किन्तु
केषाञ्चित्तद्भवोपादानरूपमेवायुः कर्मोपचिन्वतामिति ॥१७॥ [पृ०१६१] साम्प्रतं वैहायस-गृध्रपृष्ठमरणेऽभिधातुमाहगिद्धादिभक्खणं गिद्धपट्टमुब्बंधणादि वेहासं ।
ते दोन वि मरणा, कारणजाए अणुन्नाया || १८ ||
[उत्तराध्ययननि० २२३, प्रवचनसारो० १०१६] व्या० गृध्राः प्रतीतास्ते आदिर्येषां शकुनिका - शिवादीनाम्, तैर्भक्षणम्, गम्यमानत्वादात्मनस्तदनिवारणादिना तद्भक्ष्यकरि - करभादिशरीरानुप्रवेशेन च गृध्रादिभक्षणम्, तत् किमुच्यते ? इत्याह- गिद्धपट्ठि त्ति, गृधैः स्पृष्टं स्पर्शनं यस्मिन् तद् गृध्रस्पृष्टम्, यदि वा गृध्राणां भक्ष्यं 10 पृष्ठमुपलक्षणत्वादुदरादि च मर्त्तुर्यस्मिंस्तद् गृध्रपृष्ठम्, स ह्यलक्तकपूणिकापुटप्रदानेनाप्यात्मानं गृध्रादिभिः पृष्ठादौ भक्षयतीति, पश्चान्निर्दिष्टस्याप्येतस्य प्रथमतः प्रतिपादनम् अत्यन्तमहासत्त्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम्, वेहाणसद्धिपट्ठे इत्येतदपेक्षयैतदवगन्तव्यम्। उब्बंधणेति, उत् ऊर्ध्वं वृक्षशाखादौ बन्धनमुद्बन्धनम्, तदादिर्यस्य तरु - 1 -गिरिभृगुप्रपतनादेरात्मनैव जनितस्य मरणस्य तदुद्बन्धनादि, वेहासमिति प्राकृतत्वाद्यलोपे विहायसि व्योमनि भवं वैहायसम्, 15 उद्बद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तमिति ।
नन्वेवं गृध्रपृष्ठस्याप्यात्मघातरूपत्वाद्वै हायस एवान्तर्भावः ?, सत्यमेतत्, केवलमस्याल्पसत्त्वैरध्यवसातुमशक्यत्वख्यापनार्थं भेदेनोपन्यासः । ननु
भावि अजिणवयणाणं, ममत्तरहिआण नत्थि हु विसेसो । अप्पाणम्मि परम्मि अ तो वज्जे पीडमुभओ वि ॥१॥
20 इत्यागमः, एते चानन्तरोक्ते मरणेऽत्यन्तमात्मपीडाकारिणी इति कथं नागमविरोध: ? अत एव च भक्तपरिज्ञादिषु पीडापरिहाराय चत्तारि विचित्ताइ [ पञ्चव. १५७४] मित्यादि संलेखनाविधिः पानकादिविधिश्च तत्र तत्राभिहितो दर्शनमालिन्यं चोभयत्रेत्याशङ्क्याह- एतेऽनन्तरोक्ते द्वे अपि गृध्रपृष्ठ- - वैहायसाख्ये मरणे कारण त्ति प्राकृतत्वेन सप्तमीलोपात् कारणे दर्शनमालिन्यपरिहारादिके जाते समुत्पन्ने, यद्वा कारणजाते कारणप्रकारे सति उदायिनृपानुमृततथाविधगीतार्थाचार्यवदनुज्ञाते 25 इत्यदोषः ॥ १८ ॥
5
८८
सीहादिसु अभिभूओ, पायवगमणं करेइ थिरचित्तो ।
आउंमि बहुप्पंते, विआणि नवरि गीअथो ||१९|| [पञ्चव० १६२०]
१. पहुप्पन्ते इति पञ्चवस्तुके, प्रभवति इति तत्र वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org