________________
द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम्
[पृ०१६० पं०४] श्राम्यन्ति तपस्यन्तीति श्रमणास्तेषाम्, ते च शाक्यादयोऽपि स्युः, यथोक्तम्णिग्गंथ १ भिक्खु २ तावस ३, गेरिअ ४ आजीव ५ पंचहा समणा ॥ गाथार्द्धम्।
पिण्डनि० ४४५, निशीथभा० ४४२०] व्या० निर्ग्रन्था: चरकाः, भिक्षवः धाटीभिक्षाचराः, तापसा: नदीतटवासिनः, गैरिकाः कषायाम्बराः, आजीवा: गोशालकशिष्याः, एते पञ्च श्रमणा इति ॥ [पृ०१६०] संजमजोगविसन्ना, मरंति जे तं वलायमरणं तु । इंदिअविसयवसगया, मरंति जे तं वसटुं तु ॥१६॥
उत्तराध्ययननि० २१६, प्रवचनसारो० १०१०] व्या० संयमयोगा: संयमव्यापारास्तैः तेषु वा विषण्णाः संयमयोगविषण्णाः, अतिदुश्चरं तपश्चरणमाचरितुमक्षमा व्रतं च कुलादिलज्जया मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितः 10 कष्टानुष्ठानान्मुक्तिर्भविष्यति नेति विचिन्तयन्तो ये म्रियन्ते तद्वलतां संयमानुष्ठानान्निवर्तमानानां मरणं वलन्मरणम्, तुशब्दो विशेषणार्थो भग्नव्रतपरिणामानां व्रतिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं तद्विषादस्तदभावे च कथं तदिति । वशार्त्तमरणमाहइंदियेति, इन्द्रियाणां चक्षुरादीनां विषया मनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गताः प्राप्ता इन्द्रियविषयवशं गताः स्निग्धदीपकलिकावलोकनाकुलशलभवन्नियन्ते तद्वशार्त्तमरणम् । वशेन 15 इन्द्रियविषयपारतन्त्र्येण ऋता: पीडिता वशास्तेिषां मरणमप्युपचाराद्वशार्त्तमुच्यते ॥१६॥
[पृ०१६०] तद्भवमरणमाहमोत्तुं अकम्मभूमिगनरतिरिए सुरगणे य रइए । सेसाणं जीवाणं, तब्भवमरणं तु केसिंचि ॥१७॥
उत्तराध्ययननि० २२०, प्रवचनसारो० १०१२] 20 व्या० मुक्त्वा अपहाय, कान् ? अकर्मभूमिजाश्च ते देवकुरूत्तरकुर्वादिषूत्पन्नतया नरतिर्यञ्चश्चाकर्मभूमिजनर-तिर्यञ्चस्तान्, तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः। तथा सुरगणांश्च सुरनिकायान्, किमुक्तं भवति ? चतुर्निकायवर्त्तिनोऽपि देवान् । तथा निरया नरकास्तस्मिन् भवा नैरयिकास्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यङ्-मनुष्येष्वेवोत्पत्तेः। शेषाणाम् एतदुद्वरितानां कर्मभूमिजनर-तिरश्चां जीवानां तद्भवमरणम्, तेषामेव पुनस्तत्रोत्पत्तेः । 25 तद्धि यस्मिन् भवे तिर्यङ्-मनुष्यलक्षणे वर्त्तते जन्तुस्तद्भवयोग्यायुर्बद्ध्वा पुनस्तत्क्षयेण म्रियमाणस्य भवति । तुशब्दस्तेषामपि सङ्ख्येयवर्षायुषामेवेति विशेषख्यापकः । असङ्ख्येयवर्षायुषां हि १. तुला- प्रवचनसारोद्धारवृत्तिः गा.१०१० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org