________________
८६ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे [पृ०१५९] ओआहारा जीवा, सव्वे अपज्जत्तगा मुणेअव्वा । पजत्तगा य लोमे, पक्खेवे होंति भइअव्वा ॥१३॥
[बृहत्सं० १९८, प्रवचनसारो० ११८१] व्या० ओज उत्पत्तिदेशे स्वशरीरयोग्यः पुद्गलसमूहस्तदाहारयन्तीत्योजआहाराः । यद्वा 5 ओजस्तैजसशरीरम्, तेनाहारो येषां ते ओजआहारा जीवाः सर्वेऽप्येकेन्द्रियादयः पञ्चेन्द्रियान्ता
अपर्याप्ता अवगन्तव्याः । अपर्याप्तत्वं च शरीरपर्याप्तिमपेक्ष्य नाहारपर्याप्तिम्, तदपर्याप्तानामनाहारकत्वात्। सर्वाभिः स्वयोग्यपर्याप्तिभिरपर्याप्ता ओजआहारा इत्यन्ये । तथा पर्याप्ताः शरीरपर्याप्त्या, मतान्तरेण सर्वाभिः स्वयोग्यपर्याप्तिभिः पर्याप्ताः सर्वे जीवा लोमाहारे
नियमतो भवन्ति । पर्याप्तानां सर्वेषामपि जीवानां सर्वदाऽपि लोमाहारो भवत्येवेति भावः । 10 तथा च धर्माद्यभितप्ता छायया शीतलानिल-सलिलस्पर्शनेन वा प्रीयन्ते प्राणिनः । प्रक्षेपाहारे
भवन्ति भजनीयाः, यदैव कवलप्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारः, नान्यदा, लोमाहारता तु पवनादिस्पर्शनात् सदैवेति ॥१३।। [पृ०१५९] एगिदिअ-देवाणं, नेरइआणं च नत्थि पक्खेवो ।
सेसाणं जीवाणं, संसारत्थाण पक्खेवो ॥१४॥ [बृहत्सं० १९९] 15 व्या० एकेन्द्रियाणां देवानां नैरयिकाणां च नास्ति प्रक्षेपाहारः कवलाहारः, ते हि
पर्याप्त्युत्तरकालं स्पर्शेन्द्रियेणैवाहारयन्तीति कृत्वा लोमाहारा भवन्तीत्यर्थः । तत्र देवानां मनसा परिकल्पिता: शुभाः पुद्गलाः सर्वेणैव कायेनाहारतया परिणमन्ति, नारकाणां त्वशुभाः । शेषाणां जीवानां संसारस्थानां भवस्थानां द्वि-त्रि-चतुरिन्द्रिय-पञ्चेन्द्रियतिर्यग्नराणां प्रक्षेपः कवलाहारः,
सत्यभिलाषे कवलाहारोऽप्येषां भवतीत्यर्थः ॥१४॥ 20 [पृ०१५९] विग्गहगइमावन्ना १, केवलिणो समोहया २ अजोगी ३ अ ।
सिद्धा ४ य अणाहारा, सेसा आहारगा जीवा ॥१५॥ [जीवस०८२] व्या० विग्रहगतिर्भवाद्भवान्तरे विश्रेण्या गमनम्, तामापन्नाः प्राप्ताः सर्वेऽपि जीवाः, तथा केवलिनः समुद्धताः कृतसमुद्घाताः, तथा अयोगिनः शैलेश्यवस्थाः, तथा सिद्धाः क्षीणकर्माष्टकाः
सर्वेऽप्यनाहारकाः । एतव्यतिरिक्ताः शेषाः सर्वेऽप्याहारकाः । तत्र विग्रहगतिमापन्ना उत्कर्षतो 25 वक्ष्यमाणनीत्या चतुरः समयान्, केवलिनः समुद्घातेऽष्टसामयिके तृतीय-चतुर्थ-पञ्चमरूपान्
केवलकार्मणयोगयुक्तांस्त्रीन् समयान्, अयोगिनः शैलेश्यवस्थायामन्तर्मुहूर्तम्, सिद्धाः साद्यपर्यवसितं कालमनाहारका इति ॥१५॥ १. तुल्यप्रायं प्रवचनसारोद्धारवृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org