________________
द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम्
[पृ०१५८] जह दुव्वयणमवयणं, कुच्छिअसीलमसीलमसईए ।
मण्णइ तह नाणं पि हु, मिच्छद्दिट्ठिस्स अन्नाणं ॥ १० ॥ [विशेषाव० ५२०] व्या० यथा दुर्वचनं कुत्सितं वचनं तदप्यवचनं लोके भण्यते, असत्याश्च सम्बन्धि कुत्सितशीलं विद्यमानमप्यशीलं यथाऽभिधीयते, तथा मिथ्यादृष्टेर्ज्ञानमपि मिथ्यादर्शनोदयपरिग्रहादज्ञानं भण्यते, सञ्ज्ञाऽप्यसञ्ज्ञोच्यत इत्यर्थः ॥ १० ॥
[पृ०१५८] जं सामन्नग्गहणं, भावाणं नेअ कटु आगारं ।
[पृ०१५८] कस्मात् पुनस्तस्य ज्ञानमप्यज्ञानं भवतीत्याहसदसदविसेसणाओ, भवहेउजइच्छिओवलंभाओ ।
नाणफलाभावाओ, मिच्छद्दिट्ठिस्स अन्नाणं ||११|| [विशेषाव० ११५ ]
घट
व्या० सच्चासच्च सदसती, तयोरविशेषणमविशेषस्तस्माद्धेतोर्मिथ्यादृष्टेः सम्बन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते । सतो ह्यसत्त्वेनासद्विशिष्यतेऽसतोऽपि सत्त्वेन 10 सद्भिद्यते । मिथ्यादृष्टिश्च घटे सत्त्व - प्रमेयत्व - मूर्तत्वादीन् स्तम्भ - रम्भा -ऽम्भोरुहादिव्यावृत्त्यादींश्च पटादिधर्मान् सतोऽप्यसत्त्वेन प्रतिपद्यते, सर्वप्रकारैर्घट एवायमित्यवधारणात्, अनेन ह्यवधारणेन सन्तोऽपि सत्त्व-प्रमेयत्वादयः पटादिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा सत्त्वप्रमेयत्वादिसामान्यधर्मद्वारेण घटे पटादीनामपि सद्भावात् सर्वथा घटः एवायमित्यवधारणाऽनुपपत्तेः, कथञ्चिद् घट एवायमित्यवधारणे त्वनेकान्तवादाभ्युपगमेन 15 सम्यग्दृष्टित्वप्रसङ्गात् । तथा पट-पुट-नट शकटादिरूपं घटेऽसदपि सत्त्वेनाऽयमभ्युपगच्छति, सर्वप्रकारैर्घटोऽस्त्येवेत्यवधारणात् । स्यादस्त्येव घट इत्यवधारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वप्राप्तेः । तस्मात् सदसतोर्विशेषाभावादुन्मत्तकस्येव मिथ्यादृष्टेर्बोधोऽज्ञानम्, तथा विपर्यस्तत्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवधहेतुत्वात् तद्बोधोऽज्ञानम् । पशुवध - तिलादिदहन - जलाद्यवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेर्दया-प्रशम-ब्रह्मचर्या - 20 ऽऽकिञ्चन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात्तस्याऽज्ञानम्, तथा विरत्यभावान्मिथ्यादृष्टेरज्ञानमिति गाथार्थः ||११||
८५
Jain Education International
5
अविसेसिऊण अत्थे, दंसणमिति वुच्चए समए ॥ १२ ॥
व्या० समये सिद्धान्ते तद्दर्शनमित्युच्यते यत् सामान्यतो भावानां घटपटादीनां ग्रहणम्, 25 किं कृत्वा ? आकारं नैव कृत्वा । आकारस्यैव पर्यायमाह- अर्थे अविशेष्य, विशेषांशग्रहणशक्तिलक्षण आकार इति, तम् अगृहीत्वा । कोऽर्थः ? निर्विकल्पकं ज्ञानं दर्शनं सविकल्पकं ज्ञानं ज्ञानमिति तात्पर्यार्थः ||१२||
For Private & Personal Use Only
www.jainelibrary.org