________________
८४
25
उद्धारसागराणं, अड्डाइज्जाण जत्तिआ समया ।
दुगुणाद्गुणपवित्थर, दीवोदहि रज्जु एवइया ॥८॥ [ बृहत्क्षेत्रस० १ / ३, बृहत्सं० ८०] व्या० अर्द्धं तृतीयं येषां तानि अर्धतृतीयानि द्वे अर्द्धं चेत्यर्थः, तेषामुद्धारसागरोपमाणाम् । इह सागरोपमाणि त्रिधा भवन्ति, तद्यथा - अद्धासागरोपमाणि क्षेत्रसागरोपमाणि उद्धारसागरोपमाणि 5 च । तत्राद्धा-क्षेत्रव्यवच्छेदार्थमुद्धारग्रहणम् । अथ किमिदमुद्धारसागरोपमम् ? इत्युच्यतेउत्सेधाङ्गुलप्रमाणेनायामविष्कम्भाभ्यामुद्वेधेन य योजनप्रमाणः पल्यः परिकल्प्यते, ततस्तं देवकुरूत्तरकुरुमिथुनकसत्कानेकादिसप्ताहोरात्रप्ररूढान् केशान् गृहीत्वा तेषां प्रत्येकमसङ्ख्येयानि खण्डानि विधाय तैस्तथा निचितमापूर्यते यथोपरि भारशतलोहगोलकाक्रमणेऽपि न मनागपि निम्नीभवति, ततः समये समये एकैकं वालाग्रमुध्रियते, यावता च कालेन स पल्यो निर्लेपी10 भवति तावान् कालविशेष उद्धारपल्योपम उच्यते । तेषां चैवम्भूतानामुद्धारपल्योपमानां दशकोटीकोट्य एकमुद्धारसागरोपमम् । तेषामेवंरूपाणामर्द्धतृतीयानामुद्धारसागरोपमाणां यावन्तस्समयास्तावत्प्रमाणा द्वीपोदधयः । कथम्भूताः ? इत्याह- द्विगुणद्विगुणप्रविस्ताराः, पूर्वस्मात् पूर्वस्माद् द्विगुणो द्विगुणः प्रविस्तारो विष्कम्भो येषां ते तथा, तथाहि - जम्बूद्वीपस्य प्रविस्तारो योजनानां शतसहस्रम्। इह योजनादिकं सर्वत्र प्रमाणाङ्गुलेन वेदितव्यम् नगपुढविविमाणाइं मिणसु पमाणगुण 15 [ ]इति वचनप्रामाण्यात् । ततो द्वे लक्षे विष्कम्भो लवणोदसमुद्रस्य, चतस्रो लक्षा धातकीखण्डे, अष्टौ कालोदसमुद्रस्य, षोडश पुष्करवरद्वीपस्य, द्वात्रिंशत् पुष्करवरोदसमुद्रस्य एवं पूर्वस्मात् पूर्वस्माद् द्विगुणद्विगुणविष्कम्भतया द्वीपसमुद्रास्तावद्वाच्या यावदसङ्ख्येययोजनकोटीकोटीप्रमाणविष्कम्भात् स्वयम्भूरमणद्वीपात् स्वयम्भूरमणसमुद्रो द्विगुणविष्कम्भः । इत्थम्भूतैर्द्विगुणविष्कम्भैरर्द्धतृतीयोद्धारसागरोपमसमयप्रमितैरसङ्ख्येयैर्द्वप- समुद्रैर्यत् परिमितं क्षेत्रं तावत्प्रमाणा रज्जुर्भवति 20 इत्येतदावेदयन्नाह - रज्जु एवइआ, एतावती एतावत्प्रमाणा रज्जुर्भवति, तेन यत्र क्वापि लोकविभागचिन्तायां रज्जुव्यवहारस्तत्रैतावत्प्रमाणा रज्जुरवसेया । क्वचित् होंति एवइया इति पाठः, तत्रैवं व्याख्या- एतावन्तो द्वीप - समुद्रा भवन्ति । तदेवं प्रतिपादिताः सर्वसङ्ख्यया द्वीपसमुद्राः ||८|| [पृ०१५८] मिथ्यादृष्टेर्ज्ञानमप्यज्ञानमिति दृष्टान्तद्वारेण महाग्रन्थसम्मत्या गाथाद्वयेन तदेव सविस्तरं ख्यापयति
वाचकसुमतिकल्लोल - वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
अविसेसिआ मइच्चि, सम्मद्दिट्ठिस्स सा मई नाणं ।
मइअन्नाणं मिच्छादिट्ठिस्स सुअं पि एमेव ॥ ९ ॥ [ विशेषाव० ११४] व्या० सम्यग्दृष्टि - मिथ्यादृष्टिभावेनाऽविशेषिता मतिर्मतिरेवोच्यते, न तु मतिज्ञानं मत्यज्ञानं चेति । सम्यग्दृष्टेः सा मतिर्ज्ञानम्, मिथ्यादृष्टेः सैव मतिरज्ञानम्, श्रुतमप्येवमेव । तृतीयस्थानके तृतीयोद्देश ||९||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org