SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ८२ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे पृ०१४५] सौधर्मादिविमानानां वर्णविभागमधिकृत्याहसोहम्मि पंचवण्णा, एक्कगहाणी उ जा सहस्सारो । दो दो तुल्ला कप्पा, तेण परं पुंडरीआई ॥८६॥ [बृहत्सङ्ग्रहणी १३२] व्या० सौधर्मकल्पे विमानानि वर्णेन वर्णमधिकृत्य पञ्चवर्णानि श्वेत-पीत-रक्त-नील5 कृष्णवर्णोपेतानि भवन्ति, तत ऊर्ध्वं यावत् सहस्रारः कल्पस्तावदेकैकहानिरेकैकवर्णहानिर्द्रष्टव्या, नवरं द्वौ द्वौ कल्पौ तुल्यौ, वर्णमधिकृत्य तुल्यवक्तव्यताको वेदितव्यौ । इयमत्र भावना- सौधर्मेशानकल्पयोर्विमानानि शुक्ल-पीत-रक्त-नील-कृष्णवर्णोपेतानि भवन्ति, सनत्कुमार-माहेन्द्रयोः कल्पयोः कृष्णवर्णरहितशेषवर्णचतुष्टयोपेतानि, ब्रह्मलोक-लान्तककल्पयोः कृष्ण-नीलरहितशेषवर्ण त्रयोपेतानि, शुक्र-सहस्रारकल्पयोः कृष्ण-नील-रक्तरहितशेषवर्णद्वयोपेतानि । तेण परं पुंडरीआई 10 ति ततः सहस्रारात् परं विमानानि सर्वाण्यपि पुण्डरीकाणि पुण्डरीकतुल्यवर्णानि भवन्ति, पुण्डरीकं सिताम्बुजम्, तद्वत् श्वेतानि भवन्तीत्यर्थः । द्विस्थानकस्य तृतीयोद्देशकः ॥३॥ [अथ द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम्] [पृ०१४८] गाथात्रयेण प्राणादिप्रमाणमाह15 हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणु त्ति वुच्चइ ॥१॥ [बृहत्सं० २०७] व्या० हृष्टस्य तुष्टस्याऽनवकल्यस्य नीरोगस्य निरुपक्लिष्टस्य श्रम-बुभुक्षादिनाऽनभिभूतस्य जन्तोर्मनुष्यादेरेकोच्छ्वासेन युक्तो निःश्वासः, य इति गम्यते, एष प्राण इत्युच्यते, शोक जरादिभिरस्वस्थस्य जन्तोरुच्छ्वासस्त्वरितादिरूपतया स्वभावस्थो न भवति, अतो 20 हृष्टादिविशेषणोपादानम् ॥१॥ सत्त पाणुणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते विआहिए ॥२॥ [बृहत्सं० २०८] व्या० सत्तपाणु इति प्राकृतत्वात् सप्त प्राणा यथोक्तस्वरूपाः, ये इति गम्यते, स एकः स्तोकः । एवं सप्त स्तोका ये, स एको लव: । लवानां सप्तसप्तत्या यो निष्पद्यते एष 25 मुहूर्त इत्याख्यातः कथितः ।।२।। तिण्णि सहस्सा सत्त य, सयाई तेवत्तरिं च उसासा । एस मुहुत्तो भणिओ, सव्वेहिं अणंतनाणीहिं ॥३॥ व्या० अस्या भावार्थ:-सप्तभिस्सप्तभिरुच्छ्वासैरेकः स्तोको निर्दिष्टः, एवम्भूताश्च स्तोका एकस्मिल्लॅवे सप्त प्रोक्ताः, ततस्सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लॅवे एकोनपञ्चाशदुच्छ्वासाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy